Book Title: Trishashti Shalaka Purush Charita Mahakavyam_02
Author(s): Hemchandracharya, Charanvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 563
________________ आर्यपुत्रोऽपि सन्नह्य समारुह्य च तं रथम् । रणायोत्कण्ठितस्तस्थौ क्षत्रिया हि रणप्रियाः॥२६६॥ चन्द्रवेग-भानुवेगादयो विद्याधरा अमुंम् । खसैन्यैर्वबिरे वैरियशोविधुविधुन्तुदाः॥२६७॥ गृहीत गृहीत हत हतेति च विभाषिणः। आगमन्नतिवेगेनाशनिवेगस्य सैनिकाः ॥ २६८ ॥ उभयोरप्ययुध्यन्त सैन्या दैन्यविनाकृताः। ताम्रचूडा इवोत्पत्योत्पत्यामर्षात् प्रहारिणः ॥ २६९॥ तेषां वेडारवादन्यन्न किश्चिच्छुश्रुवे तदा । तदायुधेभ्यो दीप्तेभ्यो नान्यत् किश्चित् त्वदृश्यत ।। २७०॥ अपासर्पनुपासर्पन प्रहारानसकृद् ददुः । प्रतीषुश्च रणविदः सुभटाः कुञ्जरा इव ॥ २७१ ॥ युद्धा चिरेण भग्नेषु सैनिकेषु द्वयोरपि । समुत्तस्थेऽशनिवेगो रथेनानिलवेगिना ॥ २७२ ॥ भो भोः! क्व वज्रवेगारिर्यमागारनवातिथिः । इत्याक्षिपन् परानुच्चैः साधिज्यं विदधे धनुः ॥२७३ ॥ एषोऽहं वज्रवेगारिर्यमागारनवातिथिः । इति ब्रुवन्नार्यपुत्रोऽप्यातिज्यं धनुर्व्यधात् ॥ २७४ ॥ ततः प्रववृते युद्धं द्वयोरपि महौजसोः। शराशरि तिरो तदिवाकरकरोत्करम् ॥ २७५ ।। द्वावप्यार्यपुत्र विद्याधरेशो मारतत्परौ । युद्धा गदाधरप्यस्वैरसंजातपराजयौ ॥ २७६ ॥ सार्पगारुत्मतानेयवारुणास्त्रैस्तु दारुणैः । दिव्यैरवैरयुध्येतामन्योऽन्यं बाध्यबाधकैः॥२७७॥ युग्मम् ॥3 विद्याधरपतेश्चापमास्फाल्योन्मुश्चतः शरम् । आर्यपुत्रः सायकेन जीवीं जीवमिवाच्छिदत् ॥ २७८॥ ___* अपि । तं से संबृ. ॥ वैरिणां यश एव चन्द्रस्तस्मिन् राहुसरशाः। २ दीनतारहिताः। ३ कर्कुटाः । ४ गर्जनाशब्दात् । ५ प्रतिजग्मुः। 'तिथे। मु.॥ ६ भातता विस्तीर्णा ज्या यस्मिन् । . तिरोभूतः सूर्यकिरणसमूहो यस्मिन् तत् । ८ धनुर्गुणम् । . For Private & Personal use only www.jainelibrary.org Jain Education Intelli-44 K

Loading...

Page Navigation
1 ... 561 562 563 564 565 566 567 568 569 570 571 572 573 574