Book Title: Trishashti Shalaka Purush Charita Mahakavyam_02
Author(s): Hemchandracharya, Charanvijay
Publisher: Atmanand Jain Sabha
View full book text ________________
कदाचिच्चारुसंगीतैः कदाचिद् वरनाटकैः । कदाप्याख्यानकवरैः कदाप्यालेख्यवीक्षणः ॥ २९२ ॥ कदाचिद् दिव्यवापीषु जलक्रीडामहोत्सवैः । कदाप्युद्यानवीथीषु पुष्पोच्चयनकेलिमिः॥ २९३ ॥ कदाचिदन्याभिरपि क्रीडन् क्रीडाभिरेष ते । विद्याधरैः परिवृतोऽनैषीत् कालं सुखं सखा ॥ २९४ ॥
॥त्रिभिर्विशेषकम् ॥ क्रीडानिमित्तमधुना विहागात तव वान्धवः । मिलितस्त्वं च दलितो दुर्दैवस्य मनोरथः ॥ २९५॥ इत्युक्तवत्यां बकुलमत्यां रतिनिकेतनात् । सनत्कुमारो निरगादादिव मतङ्गजः ॥ २९६ ॥ समं महेन्द्रसिंहेन विद्याधरंसमावृतः। वैतादयाद्रि ततः सोऽगात् सुमेरुमिव वासवः ॥ २९७ ॥ स कालं गमयन्नृद्धथा महत्या परिहितः । महेन्द्रसिंहेनान्येधुर्व्यज्ञपीदं यथोचितम् ॥ २९८॥ तव ऋद्ध्याऽनया खामिन् ! मनो मे मोदतेतमाम् । पितरौ त्वद्वियोगातौं सारं सारं च सीदतः ॥२९९ ॥ असौ सनत्कुमारोऽसौ महेन्द्र इति तन्मयम् । पितरौ पश्यतो विश्वं मन्ये तनयवत्सलौ ॥ ३०॥ तत् प्रसीदाभिगच्छामो नगरं हस्तिनापुरम् । आनन्दय पिजनं शशाङ्क इव सागरम् ॥ ३०१॥ तेनेत्यभिहितः सख्या सोत्कण्ठः सोऽपि तत्क्षणात । विद्याधराधिपशतैश्चमृयुक्तः समावृतः॥३०२॥ विमानभासुरैः कुर्वन् नानाऽऽदित्यमिवाम्बरम । विद्याधरैः कैश्चिदपि विधृतातपवारणः॥३०३॥ उद्भूतचामरः कैश्चित् कैश्चिदप्यूढपादुकः । कैश्विद् गृहीतव्यजन आत्तवेत्रश्च कैश्चन ॥ ३०४ ॥
* '.' 'का.' इत्येतयोरादर्शयो स्ति पदद्वयमेतत् ॥ + रपरावृ संवृ.॥ + दावग' मु. ॥ ६ कै. परावृ संवृ. ॥
त्रिषष्टि, ७६
JainEducation intev al
For Private & Personal use only
www.jainelibrary.org
Loading... Page Navigation 1 ... 563 564 565 566 567 568 569 570 571 572 573 574