Book Title: Trishashti Shalaka Purush Charita Mahakavyam_02
Author(s): Hemchandracharya, Charanvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 549
________________ तदा च राज्ञोऽश्वपतिः प्राहिणोत् प्रा ते हयान् । धारापश्चकचतुरान् सर्वलक्षणलक्षितान् ॥ ८८॥ नाम्ना जलधिकल्लोलं कल्लोलमिव चञ्चलम् । एकं सनत्कुमारस्याप्यर्पयामास वाजिनम् ॥ ८९॥ त्यक्त्वा क्रीडां कुमारस्तमारुरोह तुरङ्गमम् । हस्त्यश्वे राजपुत्राणां कौतुकं सर्वतोऽधिकम् ॥९॥ कशामुत्क्षिप्य चैकेन वैल्गां चैकेन पाणिना । आसनास्पृष्टपर्याण ऊरूभ्यां प्रेरयच्च तम् ॥ ९१॥ पर्यधाविष्ट वेगेन पादैः क्ष्मामस्पृशनिव । गच्छन् बहुतरं व्योग्नि सोऽश्वान् द्रष्टुं रवेरिव ॥ ९२॥ वल्गया चषे सोऽश्वः कुमारेण यथा यथा । तथा तथा विपरीतशिक्षोऽधिकमधावत ॥ ९३ ॥ सादिनां राजपुत्राणां धावतामपि मध्यतः। निर्ययौ स क्षणादश्वोऽश्वमूर्तिरिव राक्षसः॥९४ ॥ पश्यतामपि भूपानामुंडूनामिव चन्द्रमाः। स आरूढकुमारोऽश्वोऽभूददृश्यः क्षणादपि ।। ९५॥ अश्वेन सूनुमाकृष्टं नदीपूरेण पोतवत् । प्रत्यानेतुमन्वचालीदश्वसेनोऽश्वसेनया ॥९६ ॥ यात्यसौ यात्यसावश्वः पदान्येतानि तस्य हि । फेनलालास्तस्य चेमा यावदाख्यदिदं जनः ॥ ९७॥ तावद् वात्योदभूच्चण्डा पूर्णब्रह्माण्डभस्त्रिका । अकालिकी कालरात्रिरिवान्धंकरणी दृशाम् ॥९८॥ ॥ युग्मम् ॥ * °पतेः प्रा मु० ॥+ भृतान् ह मु० ॥ १ धारा-अश्वस्य गतिविशेषः । २ मश्वस्य ताडनी कशा 'चाबुक' इति भाषायाम् । ३ वल्गा-'लगाम' इति भाषायाम् । ४ आसनेनोपवेशनेनास्पृष्टं पर्याणं येन सः ।। Kा शत्रपि ग का॥ ५ विपरीता शिक्षा यस्य सः। ६ अश्ववाराणाम् । . नक्षत्राणाम् । वायुसमूहो वाया । ISलिका का मु०॥ Jan Education For Private & Personal use only wrarww.iainelibrary.org

Loading...

Page Navigation
1 ... 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574