Book Title: Trishashti Shalaka Purush Charita Mahakavyam_02
Author(s): Hemchandracharya, Charanvijay
Publisher: Atmanand Jain Sabha
View full book text ________________
त्रिषष्टि
शलाका
पुरुषचरिते महाकाव्ये
॥४४३॥
Jain Education Internatio
अभ्युत्थानं भानुवेगः कृत्वैवं तमभाषत । दिष्ट्या नः सदनं पुण्यं पुण्यराशिर्यदागमः ॥ २२४ ॥ आकृत्याऽपि ज्ञायसे त्वं महावश्यो महाभुजः । इन्दोः क्षीरार्णवाञ्जन्म मूर्त्त्याऽपि ह्यनुमीयते ॥ २२५ ॥ यत् कन्यानां त्वमुचितो वरोऽसीति मयाऽर्ध्यसे । इमाः परिणयाष्टापि रत्नं स्वर्णे हि योज्यते ॥ २२६ ॥ एवमभ्यर्थितस्तेन तदैव विधिपूर्वकम् । ता दिश्रिय इवाष्टापि पर्यणैषीत् सखा तव ॥ २२७ ॥ ताभिः समं रतिगृहे सुप्तोऽसौ बद्धकङ्कणः । निद्रासुखं चान्वभवद् रत्नपर्यङ्कमास्थितः ॥ २२८ ॥ निद्रापराजितं चैतमसिताक्षः क्षणादपि । उत्क्षिप्यान्यत्र चिक्षेप बलिभ्योऽपि छलं बलिः ।। २२९ ॥ पश्यन् सखा ते निद्रान्ते खं भूमिष्ठं सकङ्कणम् । एकाकिन मरण्यान्तर्दध्यौ किमिदमित्यथ ॥ २३० ॥ असावटन्नटव्यन्तरेकाकी पूर्ववत् पुनः । अभ्रंलिहं ददशकं प्रासादं सप्तभूमिकम् ।। २३१ ॥ कस्यापि मायिनोऽदोऽपि मायाविलसितं किमु । इत्यामृशन्नार्य पुत्रस्तं प्रासादं समासदत् ॥ २३२ ॥ कस्याश्चिद् योषितस्तत्र कुररीकरुणखरम् । अश्रौषीद् रुदितं व्यक्तं वनान्तमपि रोदयत् ॥ २३३ ॥ आर्यपुत्रो दयावीरः प्रासादे तत्र सप्तमीम् । आरोहद् भूमिकां र्धिष्ण्य विमानभ्रान्तिदायिनीम् ।। २३४ ॥ सनत्कुमार कौरव्य ! मम जन्मान्तरेऽपि हि । भर्ता भूयास्त्वमेवेति भूयो भूयोऽभिशंसिनीम् ॥ २३५ ॥ अश्रुपूर्णक्षणां दीनां कन्यामेकामधोमुखीम् । रूपलावण्यपुण्याङ्गीं सखा ते तत्र चैक्षत ॥ २३६ ॥
* कृत्वेत्यमुम° मु.॥ न् कुमारो नि संबृ. ॥ टव्य' सं. ॥ १ आकाशगामिनम् । २ विचारयन् । * कुमारोऽपि द° सं. ॥ ४ धिष्ण्यं नक्षत्रं तारा वा ।
ध्यौ चित्ते किम (मि ) त्यथ ॥ सं. ॥ ६ स पर्यटन३ कुररीवत् करुणः स्वरो यस्मिन् । "दितमसौ व मु० ॥ योऽपि शंसिनीम् ॥ सु. ॥ ङ्गीं कुमारस्तत्र संबृ. ॥
For Private & Personal Use Only
चतुर्थ पर्व
सप्तमः सर्गः श्रीसनत्कुमारचक्रि
चरितम् ।
॥४४३॥
w.jainelibrary.org.
Loading... Page Navigation 1 ... 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574