Book Title: Trishashti Shalaka Purush Charita Mahakavyam_02
Author(s): Hemchandracharya, Charanvijay
Publisher: Atmanand Jain Sabha
View full book text ________________
मितसारपरीवारो दुर्वार इव वारणः । महेन्द्रसिंहः सहसा प्रविवेश महाटवीम् ॥ ११२ ॥ पाषाणैः खद्भिविषाणोत्क्षिप्तर्विषमपद्धतिम् । धर्माप्रविशत्क्रोडपकिलीकृतपल्वलाम् ॥ ११३ ॥ प्रौढभल्लूकहिकाभिः प्रतिशब्दितगहराम् । गहरासीनशालकृतवृत्कारदारुणाम् ॥ ११४ ॥ उत्फालचित्रककुलव्याकुलैणकुलाकुलाम् । गलितश्वापदैर्बाढवाहसैर्वेष्टितद्रुमाम् ॥ ११५॥ चमुरुचराक्रान्तमार्गच्छायावनीरुहाम् । सिंहीसखीपयःपायिसिंहरुद्धाध्वनिम्नगाम् ॥ ११६॥ मत्तकुञ्जरभनाध्वशाखिशाखातिदुर्गमाम् । सनत्कुमारमन्वेष्टुं स विष्वक् तामगाहत ॥ ११७॥
॥पञ्चभिः कुलकम् ।। विकटां कण्टकितरुश्वापदैरवटैः स्थलैः। महाटवीं तामटतस्तस्य सैन्यं व्यशीर्यत ॥ ११८॥ खिन्नखिनैर्मुच्यमानो मत्रिमित्रादिकैरपि । त्यक्तसंगो मुनिरिव स एकाकी क्रमादभूत ॥ ११९ ॥ भूयो महानिकुञ्जेषु गिरीणां कन्दरेष्वपि । पल्लीपतिरिवैकोऽपि स बभ्राम धनुर्धरः॥ १२०॥ हिते वननागानां सिंहगुञ्जारवेष्वपि । सोऽधावत् सनत्कुमारवीरध्वनितशङ्कया ॥ १२१ ॥ खमित्रं तत्र चापश्यन्नुच्छलन्निर्झरध्वनौ । तदायिन्यतोऽधावत् प्रेम्णो हि गतिरीदृशी ॥ १२२॥
खली गण्डकः । * तिःप्र संवृ०॥ २ क्रोडः सूकरः। ३ भल्लूक:-ऋक्षः। ४ एणकूलं मृगकूलम् । + ढिं वा का० ॥ ५ वाहसः अजगरैः । ६ चमूरः हरिणभेदः । ७ सिंही सखीव सहचर इव तेन सह पयः पिबद्भिः सिंहै रुद्धा मार्गसरितो यस्यां ताम् ॥ 1 °सखप संबृ० का.॥ ८ गतः। ९ तन्मित्रमाशङ्कत इति तदाशती। ६ शङ्कयान्य' का०॥
Jan Education Inter
For Private & Personal use only
www.jainelibrary.org
Loading... Page Navigation 1 ... 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574