Book Title: Trishashti Shalaka Purush Charita Mahakavyam_02
Author(s): Hemchandracharya, Charanvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 554
________________ त्रिषष्टि शलाका पुरुषचरिते महाकाव्ये ॥४४०॥ Jain Education कर्णमर्माविद्भिरिव मर्मरैरतिदुःश्रवैः । प्रबुद्धोत्कर्णपश्चास्य वृत्कारेष्वप्यकम्पितः ।। १४५ ॥ प्रत्यग्रपल्लवावादमात्रेणैवोदरम्भरिः । शिशिरं गमयामास शिशिरो मित्रपीडया ॥ १४६ ॥ ॥ त्रिभिर्विशेषकम् ॥ एवं सनत्कुमारस्यान्वेषणायाटतोऽटवीम् । एको महेन्द्रसिंहस्य जगाम परिवत्सरः ॥ १४७ ॥ तस्यामटव्यामन्येद्युर्गत्वा कियदवस्थितः । दिशो विलोकयामास नैमित्तिक इवोन्मुखः ॥ १४८ ॥ ततः कारण्डवक्रौञ्श्चहंससारस पक्षिणाम् | क्षणादाकर्णयामास कोलाहलमनाकुलः ॥ १४९ ॥ मरुता पङ्कजामोद वाहिनाश्वासितश्च सः । सरः किश्चिदिहास्तीति निश्विकायानुमानतः ।। १५० ।। आनन्दवाप्पतोयेन निश्चिन्वन् मित्रसंगमम् । सरोवरस्याभिमुखं स ययौ राजहंसवत् ॥ १५१ ॥ गच्छन्नग्रे व शुश्राव गीतं गान्धारबन्धुरम् । मधुरं वेणुनादं च वीणाक्काणं च हरिणम् ॥ १५२ ॥ विचित्रवस्त्रनेपथ्यर मणीमध्यवर्तिनम् । मित्रं सनत्कुमारं स ददर्श प्रियदर्शनम् ॥ १५३ ॥ प्रियसुहृत् किं मे माया कस्यापि कापि वा । इन्द्रजालमिदं किं वा हृदयान्निर्गतोऽथ मे ॥ १५४ ॥ इति सोऽचिन्तयद् यावत् तावत् कर्णरसायनम् । वैतालिकेन केनापि पठ्यमानमदो शृणोत् ।। १५५ ॥ कुरुवंशस रोहंसाश्व सेनाब्धिनिशाकर ! । सनत्कुमार ! सौभाग्यमनोभव ! चिरं जय ॥ १५६ ॥ जय विद्याधरवधूदोलता लिङ्गनडुम ! | आढ्यम्भविष्णो ! वैताढ्य श्रेणिद्वयजयश्रिया ॥ १५७ ॥ एवं समाकर्ण्य सनत्कुमारस्य स दृक्पथम् । जगाम ग्रीष्मसंतप्तो जलाशयमिव द्विपः ॥ १५८ ॥ * 'रवदु° संदृ० ॥ १ पञ्चास्यः सिंहः । २ तप्तः । + 'शोऽवलो' का. ॥ ३ मनोहरम् । For Private & Personal Use Only चतुथ पर्व सप्तमः सर्गः श्रीसनत्कु मारचक्रि चरितम् । ॥४४० ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574