Book Title: Trishashti Shalaka Purush Charita Mahakavyam_02
Author(s): Hemchandracharya, Charanvijay
Publisher: Atmanand Jain Sabha
View full book text ________________
Jain Education
पक्कविम्बं द्विधाभूतमिवोष्ठौ कोमलारुणौ । पीनोन्नतौ कुचावेतौ स्मरक्रीडाचलाविव ॥ १० ॥ प्रेत्य इव चलते भुजे सरलकोमले । मध्यं नितान्तं क्षामं च मुष्टिग्राह्यं पेवेरिव ॥ ११ ॥ शेवलालीव रोमावल्यावर्त इव नाभ्यपि । नितम्बः पुलिनमिव लावण्यसरितस्त्वसौ ॥ १२ ॥ रम्भास्तम्भाविवोरू च पादौ च कमले इव । किमन्यत् सर्वमप्यस्या मनो हरति कस्य न १ ॥ १३ ॥ जराविक्लवचित्तत्वादनौचित्येन वेधसा । निवेशिता क्वाप्यपात्रे शक्रस्तम्भः श्मशानवत् ॥ १४ ॥ एतामपहरिष्यामि क्षेप्स्याम्यन्तःपुरे निजे । अनौचित्यनिवेशित्वदोषः स्रष्टुः प्रयातु च ॥ १५ ॥ एवं मनसि निश्चित्य कन्दर्पविधुरोऽथ ताम् । जग्राह विक्रमयशा यशो म्लानीचकार च ॥ १६ ॥ अन्तरन्तःपुरं क्षित्वा रमयामास तां सदा । विचित्रस्मरलीलाभिरेकतानः स भूपतिः ॥ १७ ॥ आविष्ट इव भूतेन धत्तूरमिव लीढवान् । अपस्मारमिव प्राप्तो मदिरामिव पीतवान् ॥ १८ ॥ आघात इव सर्पेण सन्निपातमिवाप्तवान् । विधुरस्तद्वियोगेन सार्थवाहो बभूव सः ॥ १९ ॥ युग्मम् ॥ तया सह वियुक्तस्य सार्थवाहस्य तस्य च । संयुक्तस्य च नृपतेः कालोऽगाद् दुःखसौख्यकृत् ॥ २० ॥ विष्णुश्रिया रममाणे नृपे तस्मिन्निरन्तरम् । ईर्ष्यया कार्मणं चक्रुः क्रुद्धाः शुद्धान्तयोषितः ॥ २१ ॥ कार्मणेन च सा तेन क्षीयमाणा क्षणे क्षणे । मूलर्वम्येव लतिका जीवितेन व्यमुच्यत ॥ २२ ॥ नृपोऽपि मृत्युना तस्या जीवन्मृत इव स्थितः । प्रलापी च विलापी च नागदत्त इवाभवत् ॥ २३ ॥
३ वलीनः ।
* कुचा चैतौ संवृ. का. ॥ १ नूतने । + 'तान्तक्षा' मु० ॥ ४ सार्थवाहस्य दुःखकृत्, नृपतेश्च सुखकृदित्यर्थः ।
५ शुद्धान्तः - अन्तःपुरम् ।
२ वज्रस्य । शेवाला' का. ॥ ६ वमिः वमनम् ।
For Private & Personal Use Only
www.jainelibrary.org.
Loading... Page Navigation 1 ... 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574