SearchBrowseAboutContactDonate
Page Preview
Page 543
Loading...
Download File
Download File
Page Text
________________ Jain Education पक्कविम्बं द्विधाभूतमिवोष्ठौ कोमलारुणौ । पीनोन्नतौ कुचावेतौ स्मरक्रीडाचलाविव ॥ १० ॥ प्रेत्य इव चलते भुजे सरलकोमले । मध्यं नितान्तं क्षामं च मुष्टिग्राह्यं पेवेरिव ॥ ११ ॥ शेवलालीव रोमावल्यावर्त इव नाभ्यपि । नितम्बः पुलिनमिव लावण्यसरितस्त्वसौ ॥ १२ ॥ रम्भास्तम्भाविवोरू च पादौ च कमले इव । किमन्यत् सर्वमप्यस्या मनो हरति कस्य न १ ॥ १३ ॥ जराविक्लवचित्तत्वादनौचित्येन वेधसा । निवेशिता क्वाप्यपात्रे शक्रस्तम्भः श्मशानवत् ॥ १४ ॥ एतामपहरिष्यामि क्षेप्स्याम्यन्तःपुरे निजे । अनौचित्यनिवेशित्वदोषः स्रष्टुः प्रयातु च ॥ १५ ॥ एवं मनसि निश्चित्य कन्दर्पविधुरोऽथ ताम् । जग्राह विक्रमयशा यशो म्लानीचकार च ॥ १६ ॥ अन्तरन्तःपुरं क्षित्वा रमयामास तां सदा । विचित्रस्मरलीलाभिरेकतानः स भूपतिः ॥ १७ ॥ आविष्ट इव भूतेन धत्तूरमिव लीढवान् । अपस्मारमिव प्राप्तो मदिरामिव पीतवान् ॥ १८ ॥ आघात इव सर्पेण सन्निपातमिवाप्तवान् । विधुरस्तद्वियोगेन सार्थवाहो बभूव सः ॥ १९ ॥ युग्मम् ॥ तया सह वियुक्तस्य सार्थवाहस्य तस्य च । संयुक्तस्य च नृपतेः कालोऽगाद् दुःखसौख्यकृत् ॥ २० ॥ विष्णुश्रिया रममाणे नृपे तस्मिन्निरन्तरम् । ईर्ष्यया कार्मणं चक्रुः क्रुद्धाः शुद्धान्तयोषितः ॥ २१ ॥ कार्मणेन च सा तेन क्षीयमाणा क्षणे क्षणे । मूलर्वम्येव लतिका जीवितेन व्यमुच्यत ॥ २२ ॥ नृपोऽपि मृत्युना तस्या जीवन्मृत इव स्थितः । प्रलापी च विलापी च नागदत्त इवाभवत् ॥ २३ ॥ ३ वलीनः । * कुचा चैतौ संवृ. का. ॥ १ नूतने । + 'तान्तक्षा' मु० ॥ ४ सार्थवाहस्य दुःखकृत्, नृपतेश्च सुखकृदित्यर्थः । ५ शुद्धान्तः - अन्तःपुरम् । २ वज्रस्य । शेवाला' का. ॥ ६ वमिः वमनम् । For Private & Personal Use Only www.jainelibrary.org.
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy