SearchBrowseAboutContactDonate
Page Preview
Page 542
Loading...
Download File
Download File
Page Text
________________ चतुथ पर्व त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये सप्तमः सर्गः। श्रीसनत्कुमारचक्रिचरितम् ॥ सप्तमः सर्गः श्रीसनत्कुमारचक्रि| चरितम् । ॥४३४॥ अस्तीह काञ्चनपुरं दधानं काञ्चनश्रियम् । भोगावत्यमरपुरीलङ्कादिभ्योऽतिशायिनीम् ॥१॥ तत्रासीद् विक्रमयशा नाम प्रवरविक्रमः। रिपुस्त्रैणाश्रुनीरेद्धप्रतापेरम्मदो नृपः॥२॥ तस्य पञ्चशतान्यासन्नन्तःपुरमृगीदृशाम् । यूथभर्तुर्द्विपस्येव करिण्यः प्रेमलालसाः॥३॥ तदा चासीत् पुरे तस्मिन् सार्थवाहो महर्द्धिकः । नागदत्तोऽभिधानेन निधानमिव संपदाम् ॥ ४॥ सौभाग्यलावण्यवती रूपातिशयशालिनी। विष्णोः श्रीरिव विष्णुश्रीर्नाम्ना तस्य गृहिण्यभूत् ॥५॥ अन्योऽन्यं नीलिकारागप्रेमाणौ तौ विजहतुः। अव्याहतपरक्रीडासरसौ सारसाविव ॥६॥ काकतालीयन्यायेन कथमप्येकदा तु सा । दृक्पथं विक्रमयशोवसुधाभतुराययौ ॥७॥ तां प्रेक्ष्य विक्रमयशा दस्युनेव मनोभुवा । लुण्ख्यमानविवेकस्वश्चेतस्येवमचिन्तयत् ॥८॥ अहो ! विलोचने अस्या मृग्या इव मनोरमे । बन्धुरः केशपाशश्च कलाप इव केकिनः ॥९॥ १ रिपुस्त्रीसमूहस्याचुनीरेण इदो दीप्तः प्रताप एव इरम्मदो मेघानियस्य सः। *णाननी मु०॥ द्धिप्रवाहेर' का०, प्रतपेर काद्वि०॥ दशः। य० संवृ०॥"मभाजनम मु०॥ भ्योऽभ्यनी मु०॥ गममा Gा संबृ०॥२ निर्वाधकामक्रीडायां रससहितौ । ३ लुण्ठ्यमानं विवेक एवं स्वं धनं यस्य सः। 1 विलोकने मु०॥, नेत्रे।४ सुन्दरः। ॥४३४॥ Jain Education Inter For Private & Personal use only T ww.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy