________________
यथैकः स पतिः पृथ्व्यास्तथा तस्याप्यजायत । अर्हन् देवः सुसाधुश्च गुरुर्धर्मो दयामयः ।। ५२॥ सदा स चैत्यपूजासु तत्पूजाविव राजकम् । नोज्झाञ्चकार नियमं नित्यं नियमितेन्द्रियः॥५३॥ अविरतश्रावकत्वेनातिवाह्यायुरात्मनः । सोऽन्तकाले परिव्रज्यामुपादत्त यथाविधि ॥ ५४॥ कौमारेऽब्दसहस्राणि पश्चविंशतिरस्य तु । मण्डलित्वेऽपि तावन्ति दशव तु दिशां जये ॥५५॥ चक्रित्वे तु व्यब्दलक्षी सहस्रा नवतिस्तथा । व्रतकाले च पश्चाशत्सहस्राः शरदां पुनः॥५६॥
पश्चाब्दलक्षीमतिवाह्य जन्मतः पञ्चामलात्मा परमेष्ठिनः सरन् ।
पश्चत्वमाप्येन्द्रसमानवैभवः सनत्कुमारेऽजनि सोऽमराग्रणीः॥५७॥ इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये चतुर्थे
पर्वणि मघवचक्रवर्तिचरितवर्णनो नाम षष्ठः सर्गः।
* पृथव्यां त° का.॥
र नीतिं च नित्यं संवृ.॥ तिस्तस्य मु.॥निर्मलारमा पञ्चपरमेष्ठिनः सरबिस्यर्थः ।
त्रिषष्टि. ७४
Jain Education Intern
For Private & Personal use only
www.jainelibrary.org.