Book Title: Trishashti Shalaka Purush Charita Mahakavyam_02
Author(s): Hemchandracharya, Charanvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 540
________________ चतुर्थ पर्व त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये सगे श्रीमघवचक्रवर्तिचरितम्। ॥४३३॥ मघवा चक्रवर्तीति कूटे ऋषभनामनि । आदाय काकिणीरत्नं लिलेख निजनाम सः॥ ३८॥ ततो निवृत्तो मघवा गङ्गायाः पूर्वनिष्कुटम् । सेनान्या साधयामास गङ्गादेवीं स्वयं पुनः॥ ३९॥ वैताढ्यपर्वतश्रेणिद्वयविद्याधरानपि । स तृतीयश्चक्रधरः साधयामास लीलया ॥४०॥ खण्डप्रपाताद् द्वारस्थं नाट्यमालमथापरम् । यथाविध्यात्मसाचके चक्रभृद् विधिकोविदः॥४१॥ खण्डप्रपातया सेनान्युद्घाटितकपाटया । वैताढ्यान्निरगाच्चक्री पोतोऽर्णवजलादिव ॥ ४२ ॥ नवापि निधयस्तत्र गङ्गामुखनिवासिनः । बभूवुर्वशगास्तस्य नैसर्पप्रमुखाः सुखम् ॥४३॥ सेनान्या साधयामास गाङ्गं पश्चिमनिष्कुटम् । इत्थं स च वशीचक्रे षट्खण्डमपि भारतम् ॥४४॥ संपूर्णचक्रिसामय्या भ्राजिष्णुर्मघवा ततः। श्रावस्तीनगरीमागान्मघवेवामरावतीम् ॥ ४५ ॥ तत्र देवैनुदेवैश्च मघोनोऽनूनसंपदः । चक्रवर्तित्वाभिषेको विधीयत यथाविधि ॥ ४६॥ अभिषिक्तोऽपि चक्रित्वे सेवमानोऽपि सन्ततम् । द्वात्रिंशता मुकुटिनां सहस्रैर्मेदिनीभुजाम् ॥ ४७॥ श्रीयमाणः पोडशभिः सहनै सदामपि । निधिभिनवभिरपि परिपूर्णेप्सितोऽपि हि ॥४८॥ चतुःषष्ट्या सहस्रश्च शुद्धान्तहरिणीशास् । नेयनेन्दीवरस्रग्भिरय॑मानोऽप्यनारतम् ॥ ४९॥ अन्येष्वपि प्रमादस्य स्थानेषु सुलभेषु सः । पित्र्ये श्रावकधर्मे तु न जात्वासीत् प्रमद्वरः ॥५०॥ नानाविधानि चैत्यानि विमानानीव नाकिनाम् । जिनविम्बसनाथानि स्वर्णरत्नैर्व्यधत्त सः॥५१॥ * °स गङ्गायाः पूर्वनिमु.॥ १ मुकुटधारिणां राज्ञाम् । २ आश्रीयमाणः। ३ पूर्यमाणे । ४ अन्तःपुरस्त्रीणाम् । ५ नयनान्येव कमलानि तेषां मालाभिः। ६ सदा। -पितुरागते परम्परयेत्यर्थः । ॥४३३॥ Jain Education inte For Private & Personal use only www.jainelibrary.org.

Loading...

Page Navigation
1 ... 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574