Book Title: Trishashti Shalaka Purush Charita Mahakavyam_02
Author(s): Hemchandracharya, Charanvijay
Publisher: Atmanand Jain Sabha
View full book text ________________
Jain Education
भूयो भूयो जगन्नाथ ! त्वामदः प्रार्थयामहे । त्वत्पादपङ्कजद्वन्द्वेऽस्मन्मनो भ्रमरायताम् ॥ २१७ ॥ एवं स्तुत्वा विरतेषु शक्र - केशव -सीरिषु । विदधे भगवान् धर्मखाम्येवं धर्मदेशनाम् ॥ २९८ ॥
चतुर्वर्गेऽग्रणीर्मोक्षो योगस्तस्य च कारणम् । ज्ञान - श्रद्धान- चारित्ररूपं रत्नत्रयं च सः ॥ २१९ ॥ तत्वानुगा मतिर्ज्ञानं सम्यक् श्रद्धा तु दर्शनम् । सर्वसावद्ययोगानां त्यागश्चारित्रमिष्यते ।। २२० ।। आत्मैव दर्शन -ज्ञान- चारित्राण्यथवा यतेः । येत् तदात्मक एवैष शरीरमधितिष्ठति ।। २२१ ॥ आत्मानमात्मना वेति मोहत्यागाद् य आत्मनि । तदेव तस्य चारित्रं तज्ज्ञानं तच्च दर्शनम् ॥ २२२ ॥ आत्माऽज्ञानभवं दुःखमात्मज्ञानेन हन्यते । तपसाऽप्यात्मविज्ञानहीनैश्छेत्तुं न शक्यते ॥ २२३ ॥ अयमात्मैव चिद्रूपः शरीरी कर्मयोगतः । ध्यानाग्निदग्धकर्मा तु सिद्धात्मा स्यान्निरञ्जनः ॥ २२४ ॥ अयमात्मैव संसारः कषायेन्द्रियनिर्जितः । तमेव तद्विजेतारं मोक्षमाहुर्मनीषिणः ।। २२५ ।। स्युः कषायाः क्रोध-मान-माया-लोभाः शरीरिणाम् । चतुर्विधास्ते प्रत्येकं भेदैः संज्वलनादिभिः ॥२२६॥ पक्षं संज्वलनः प्रत्याख्यानो मासचतुष्टयम् । अप्रत्याख्यानको वर्ष जैन्मानन्तानुबन्धकः ।। २२७ ॥ वीतराग-यति-श्राद्ध-सम्यग्दृष्टित्वघातकाः । ते देवत्व-मनुष्यत्व- तिर्यक्त्व- नरकप्रदाः ॥ २२८ ॥ तत्रोपतापकः क्रोधः क्रोधो वैरस्य कारणम् । दुर्गतेर्वर्तनी' क्रोधः क्रोधः शमसुखार्गला ॥ २२९ ॥
१ मोक्षस्य । २ योगः । * ज्ञानं तत्त्वावबोधः स्यात् स० सं० ॥ ३ यत् यस्मात् कारणात् दर्शन- ज्ञान चारित्रास्मक एवैष आत्मा ॥ ४ आत्मनोऽज्ञानभवम् । ५ कथायेन्द्रियजेतारं तमात्मानमेव मोक्षमाहुः । ६ जम्मपर्यन्तम् । ७ संज्वलनो वीतरागश्वघातकः प्रत्याख्यानश्च यतित्वघातक इत्याद्यनुक्रमेण । ८ संज्वलनो देवत्वप्रद इत्यादि । ९ मार्गः ।
For Private & Personal Use Only
श्रीधर्मनाथजिनस्य धर्मदेशना ।
www.jainelibrary.org
Loading... Page Navigation 1 ... 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574