Book Title: Trishashti Shalaka Purush Charita Mahakavyam_02
Author(s): Hemchandracharya, Charanvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 524
________________ त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये चतुर्थ पर्व पश्चमः सर्गः श्रीधर्मनाथजिनचरितम् । ॥४२५॥ तत्र प्रविश्य कृत्वा च चैत्यवृक्षप्रदक्षिणाम् । नत्वा च तीर्थमध्यास्त पूर्वसिंहासनं प्रभुः ॥ २०३॥ रत्नसिंहासनस्थानि प्रतिबिम्बान्यथ प्रभोः। ताशि व्यन्तराश्चक्रुस्तिसृष्वन्यासु दिक्ष्वपि ॥ २०४॥ यथास्थानं प्रविश्यास्थात् संघोऽपि स्वामिपर्षदि । तिर्यश्चो मध्यवप्रेऽस्थुस्तृतीये वाहनानि तु ॥ २०५॥ उपेत्य शीघ्रं पुरुषसिंहायायुक्तपूरुषाः । स्वामिनं समवसृतमाख्यनुत्फुल्लचक्षुषः ॥ २०६॥ तेभ्यो द्वादश रूप्यस्य कोटीः सार्धा वितीर्य सः। आगात् समवसरणं सुदर्शनसमन्वितः ॥ २०७॥ प्रभुं प्रदक्षिणीकृत्य नमस्कृत्य च भक्तितः। साग्रजोऽनुसहस्राक्षमुपाविक्षदधोक्षजः ॥ २०८॥ भूयोऽपि खामिनं नत्वा शक्रशाङ्गिसुदर्शनाः । स्वामिभक्तावसंतुष्टा इति तुष्टुवुरुन्मुदः ।। २०९॥ विजयख जैगच्चक्षुश्चकोरान्दचन्द्रमः। मिथ्यात्वध्वान्तमार्तण्ड! धर्मनाथ! जगत्पते ॥ २१ ॥ चिरं व्यहाश्छिद्मस्थो गैतछया तथाऽप्यसि । अनन्तदर्शनोऽपि त्वं दर्शनान्तरबाधकः ॥ २११॥ त्वद्देशनापयःपूरैः परितः प्लावितात्मनाम् । असाय कर्ममालिन्यमपयाति शरीरिणाम् ॥ २१२॥ तथा न मेघच्छायासु तरुच्छायासु नापि वा । यथा शाम्यति संतापः पादमूले तव प्रभो! ॥ २१३ ॥ इह त्वदर्शनालोकनिस्यन्दवपुषः प्रभो।। पाञ्चालिकावदुत्कीर्णा इव भान्ति शरीरिणः ॥ २१४ ॥ पृथग्विरुद्धमप्येतदेकत्र मिलितं चिरात् । त्वत्प्रभावाजगद्वन्धो ! बन्धूभृतं जगत्रयम् ॥ २१५ ॥ त्रिखण्डभरतक्षेत्रमूलायतनदैवत!। अनन्यशरणानसांस्त्रायस्ख परमेश्वर। ॥ २१६ ॥ १सेवकाः। २ विष्णुः। ३ सहर्षाः । . जगतां चक्षुरेव चकोरस्तस्यानन्दे चन्द्रसमः। ५ गतं छल कपटं बस्य सः। शीघ्रम् ।. . . ॥४२५॥ Jain Education Intel For Private & Personal use only

Loading...

Page Navigation
1 ... 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574