________________
त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये
चतुर्थ पर्व पश्चमः
सर्गः श्रीधर्मनाथजिनचरितम् ।
॥४२५॥
तत्र प्रविश्य कृत्वा च चैत्यवृक्षप्रदक्षिणाम् । नत्वा च तीर्थमध्यास्त पूर्वसिंहासनं प्रभुः ॥ २०३॥ रत्नसिंहासनस्थानि प्रतिबिम्बान्यथ प्रभोः। ताशि व्यन्तराश्चक्रुस्तिसृष्वन्यासु दिक्ष्वपि ॥ २०४॥ यथास्थानं प्रविश्यास्थात् संघोऽपि स्वामिपर्षदि । तिर्यश्चो मध्यवप्रेऽस्थुस्तृतीये वाहनानि तु ॥ २०५॥ उपेत्य शीघ्रं पुरुषसिंहायायुक्तपूरुषाः । स्वामिनं समवसृतमाख्यनुत्फुल्लचक्षुषः ॥ २०६॥ तेभ्यो द्वादश रूप्यस्य कोटीः सार्धा वितीर्य सः। आगात् समवसरणं सुदर्शनसमन्वितः ॥ २०७॥ प्रभुं प्रदक्षिणीकृत्य नमस्कृत्य च भक्तितः। साग्रजोऽनुसहस्राक्षमुपाविक्षदधोक्षजः ॥ २०८॥ भूयोऽपि खामिनं नत्वा शक्रशाङ्गिसुदर्शनाः । स्वामिभक्तावसंतुष्टा इति तुष्टुवुरुन्मुदः ।। २०९॥ विजयख जैगच्चक्षुश्चकोरान्दचन्द्रमः। मिथ्यात्वध्वान्तमार्तण्ड! धर्मनाथ! जगत्पते ॥ २१ ॥ चिरं व्यहाश्छिद्मस्थो गैतछया तथाऽप्यसि । अनन्तदर्शनोऽपि त्वं दर्शनान्तरबाधकः ॥ २११॥ त्वद्देशनापयःपूरैः परितः प्लावितात्मनाम् । असाय कर्ममालिन्यमपयाति शरीरिणाम् ॥ २१२॥ तथा न मेघच्छायासु तरुच्छायासु नापि वा । यथा शाम्यति संतापः पादमूले तव प्रभो! ॥ २१३ ॥ इह त्वदर्शनालोकनिस्यन्दवपुषः प्रभो।। पाञ्चालिकावदुत्कीर्णा इव भान्ति शरीरिणः ॥ २१४ ॥ पृथग्विरुद्धमप्येतदेकत्र मिलितं चिरात् । त्वत्प्रभावाजगद्वन्धो ! बन्धूभृतं जगत्रयम् ॥ २१५ ॥ त्रिखण्डभरतक्षेत्रमूलायतनदैवत!। अनन्यशरणानसांस्त्रायस्ख परमेश्वर। ॥ २१६ ॥
१सेवकाः। २ विष्णुः। ३ सहर्षाः । . जगतां चक्षुरेव चकोरस्तस्यानन्दे चन्द्रसमः। ५ गतं छल कपटं बस्य सः। शीघ्रम् ।. . .
॥४२५॥
Jain Education Intel
For Private & Personal use only