________________
Jain Education Int
पुष्पवृष्टिरेर्मूर्ध्नि मूर्धन्यस्य तैरखिनाम् । पपात गगनात् सद्यो जयश्रीहाससन्निभा ॥ १८९ ॥ तयैव यात्रा विष्णुर्भरतार्घमसाघयत् । सहस्रधा हि फलति व्यवसायो महात्मनाम् ॥ १९० ॥ दिग्यात्राया निवृत्तोऽथ मगधेष्वागतो हरिः । दोष्णोदधे कोटिशिलां मृत्पात्रमिव लीलया । १९१ ॥ मेदिनीं छादयन्नश्वर्य याच श्वपुरं हरिः । विवेशितः पुरस्त्रीभिः कल्पितार्थः पदे पदे ॥ ९९२ ॥ तत्र लाङ्गलिनाsन्यैश्च राजभिर्भक्तिराजिभिः । अर्धचक्रधरत्वाभिषेकोऽक्रियत शार्ङ्गिणः ।। १९३ ॥
इतश्च भगवान् धर्मश्छद्मस्थो वत्सरद्वयम् । विहृत्याभ्यागमद् दीक्षोपवनं वप्रकाञ्चनम् ।। १९४ ॥ दधिपर्णतले तत्र ध्यानान्तरेंजुषः प्रभोः । पुष्ये मे पौषराकायां षष्ठेनाजनि केवलम् ।। ९९५ ।। दिव्ये समवसरणे देशनां विदधे विभुः । अरिष्टादीन् गणभृतस्त्रिचत्वारिंशतं तथा ।। १९६ ॥ तत्तीर्थभूः किंनराख्यख्यास्यः कूर्मरथोऽरुणः । दक्षिणैस्तु मातुलिजिंगदाभृदभयप्रदैः ॥ १९७ ॥ arted नकुलपद्माक्षमालामालिभिर्भुजैः । भ्राजिष्णुर्धर्मनाथस्य जज्ञे शासनदेवता ॥ १९८ ॥ तथोत्पन्ना च कन्दर्पा गौराङ्गी मत्स्यवाहना । उत्पलाङ्कुशधारिभ्यां दक्षिणाभ्यां विराजिता ॥ १९९ ॥ दोभ्यां तदितराभ्यां च पद्मिनाऽभयदेन च । प्रभोः शासनदेव्यासीत् सदा सन्निधिवर्तिनी ॥ २०० ॥ सेव्यमानः सदा ताभ्यां विहरन्नवनीमिमाम् । अपरेद्युरुपागच्छत् पुरमश्वपुरं प्रभुः ॥ २०१ ॥ सद्यः समवसरणं चक्रे शक्रादिभिः सुरैः । चत्वारिंशत्पश्ञ्चधन्वशतोच्चाशोकपादपम् ॥ २०२ ॥
१ बलवताम् । २ मृत्तिकापात्रम् । * रमुपेयुषः । पु० [सं० ॥ ३ त्रिमुखः । ख्याक्षः कू सं० ॥ °लिङ्गग" संवृ० ॥
For Private & Personal Use Only
श्रीधर्मनाथजिनस्य कैवल्यं सम वसरणं च ।
www.jainelibrary.org