________________
H
त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये
चतुर्थ पर्व पञ्चमः सर्गः श्रीधर्मनाथजिनचरितम्
॥४२४॥
निरन्तरं निपतितैर्विशिखप्रकरैस्तयोः । बभार रणभूर्वेत्रच्छन्नवारिधिविभ्रमम् ॥ १७६ ॥ करमुक्तैर्यत्रमुक्तमुक्तामुक्तैरथापरैः। आयुधैर्युयुधाते तो युद्धाम्भोधितिमिङ्गिलौ ॥ १७७॥ ज्वलज्वालालिजिह्वालं करालं तीक्ष्णधारया । वजीव वजं ससार निशुम्भश्चक्रमुच्चकैः ॥ १७८॥ स्मृतमात्रोपस्थितं तदङ्गल्या भ्रमयन् दिवि । साँवष्टम्भोऽभ्यधत्वं निशुम्भः क्षोभणं वचः ॥ १७९॥ अनुकम्प्योऽसि बालोऽसि का लजा तेऽपसर्पतः। तद्गच्छ मां वा सेवख किं ते वाजपिन मत्रवत् ॥१८॥ चक्रेणानेन मुक्तेन दारयामि गिरीनपि । तवाभिनवकूष्माण्डकोमलस्य तु का कथा ॥ १८१॥ ऊचे पुरुषसिंहोऽथ तवेत्युर्जितगर्जितः। ओजश्चक्रस्य च प्रेक्ष्यमन्यास्त्रैः किं कृतं त्वया ॥१८२॥ शैक्रधन्वेव मेघेन त्वया चक्रमिदं धृतम् । किं मे करिष्यते मूढ! मुश्च पश्याम्यमोघताम् ॥ १८३॥ एवं पुरुषसिंहेन भाषितः परुषाक्षरम् । सर्वोजसाऽमुचच्चक्रं निशुम्भो निशुशुम्भिषुः॥१८४॥ हरेरुरसि तुम्बाग्रभागेनास्फाल्य तद्रयात् । मोघीबभूव विन्ध्याद्रेस्तट्यामिव महागजः ॥ १८५॥ मूर्च्छया पुण्डरीकाक्षो मुकुलाक्षोऽपतत् ततः। मुंशलास्त्रेण सिषिचे चाथ गोशीर्षचन्दनः ॥ १८६ ॥ उत्थाय लब्धसंज्ञस्तच्चक्रमादाय पाणिना। मा तिष्ठ गच्छ गच्छेति निशुम्भं प्रत्यभाषत ॥ १८७ ॥ मुंश्च मुश्चेति वदतो निशुम्भस्य शिरस्ततः । चकर्त तेन चक्रेणार्धचक्री सोऽथ पञ्चमः॥१८८॥
बाणसमूहै।। २ युद्धमेव समुद्रस्तमिस्तिमिङ्गिलौ मत्स्यविशेषौ। ३ सगर्वः। ४ श्वाऽपि तव विचारदाता किं नास्ति ।। * 'गर्वितम् । ओ० संवृ.॥ ५ इन्द्रचापः। ६ हन्तुमिच्छुः। विफलीवभूव। ८ मुशलमत्रं यस्य तेन बलदेवेन।
AGARAACAGRA
॥४२४॥
Jain Education in
For Private & Personal use only
www.jainelibrary.org