________________
दूतानां वाक्प्रपञ्चैकच्छेकानां त्वादृशां गिरा । निर्विषः फेटयेवाहिः स मेषयति पार्थिवान् ।। १६३॥ गच्छ माऽसद्वचो गोप्यं शंस खस्वामिनेऽखिलम् । शत्रुर्भावीति सोऽमाभिर्वध्यकोटौ कृतोऽस्त्यलम्॥१६४॥ एवमुक्तः ससंरम्भमुत्थाय रभसेन सः । दूतो गत्वा निशुम्भाय सर्वमाख्यद् यथातथम् ॥ १६५॥ तदाकर्ण्य वचः क्रुद्धो निशुम्भोरिनिशुम्भनः । सेनाभिश्छादयनुवर्वी प्रतस्थेऽश्वपुरं प्रति ॥१६६॥ निशुम्भं प्रस्थितं श्रुत्वा विष्णुनाऽप्यरिजिष्णुना । सद्यः सर्वाभिसारेण प्रतस्थे साग्रजन्मना ॥१६७॥ निशुम्भ-पुरुषसिंहौ मिथः प्रमथनोचती । संगच्छेते स्मार्धमार्गे मत्ताविव वनद्विपौ ॥ १६८॥ युध्यन्ते स द्वयोः सैन्याः क्षोभयन्तोऽपि रोदसी । क्ष्वेडा-कार्मुकटङ्कार-करास्फालनशब्दितैः॥ १६९ ॥ अजनिष्ट क्षणेनापि क्षयकाल इव क्षयः । अक्षौहिण्योरुभयोरप्यात्मरक्षानपेक्षयोः ॥ १७० ॥ अन्वीयमानो हलिना पवनेनेव पावकः । पाञ्चजन्यमपूरिष्ट शार्ङ्गधन्वा रथस्थितः॥ १७१ ॥ महता तन्निनादेन परसैन्यानि सर्वतः । पतत्कुलिशनि?षेणेव घोरेण चुक्षुभुः॥१७२ ॥ तिष्ठ तिष्ठ मॅटम्मन्येत्युच्चकैराक्षिपन्नथ । रथी प्रतिहरिर्यो सुपतस्थे हरिं प्रति ॥ १७३ ॥ आस्फालयामासतुस्तौ हरि-प्रतिहरी धनुः । कोपानमनिजनिजभ्रकुटीमङ्गभीषणम् ॥ १७४॥ अवर्षतामुभौ बाणैर्धारासारैरिवाम्बुदौ । सिंहनादेस्त्रासयन्तौ मृगीरिव नभश्वरीः॥१७५ ॥
कश्चतुः। २ फणया। *सहि मेषयते नपान् । संवृ०॥ ३ वध्यगणनायाम् । “वेडा सिंहशब्दः । CI५ अशिः। कुलिशं वनम् । . आरमान भटं मन्यमानः । विद्याधरीः।
Jain Education in
d er INE
For Private & Personal use only
www.jainelibrary.org.