________________
त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये
चतुर्थ पर्व पश्चमः सर्गः
श्रीधर्मनाथजिन
॥४२३॥
चारतम् ।
लघीयांसौ गरीयांसौ विधातव्यौ मया युवाम् । चिरं कृताया वां पित्रा भक्तरानृण्यमिच्छता ॥१५॥ इत्युक्तयोस्तयोः क्रोधोऽभृच्छोकश्च न्यवर्तत । रसान्तरेण हि रसो बाध्यते बलवानपि ॥ १५१ ॥ ध्रुवमुन्नमयन्नेकां किश्चित् साचीकृतालिकः । अथावभाषे पुरुषसिंहः सिंह इव क्रुधा ॥ १५२ ॥ इक्ष्वाकुकुलचन्द्रस्य तस्य विश्वोपकारिणः । अस्मत्पितुरस्तमये कस्कोऽभून्न शुचां पदम् ॥ १५३ ॥ राजानोऽन्येऽपि शुशुचुनिशुम्भोऽपि शुशोच यत् । तेन पैशून्यमस्य स्याद् दद्याच्चेन्नेति वाचिकम् ॥ १५४॥ बालकस्यापि सिंहस्य को हि देशं प्रयच्छति । प्रवर्धयति तं को वा कुतस्तस्य पराभवः ॥ १५५॥ इदानीमावयोरेवं स जल्पन किं न लज्जते । आप्तत्वव्याजतोऽस्माकं न्यकारी स द्विषन् खलु ॥ १५६॥ सोऽस्तु मित्रममित्रो वोदासीनो वा तव प्रभुःनिरपेक्षा वयं तस्य दोरपेक्षैव दोष्मताम् ॥ १५७॥ दूतोऽप्यूचे पितृतुल्यममित्रीकुर्वतोऽद्य तम् । सुव्यक्तं बालकत्वं ते 'शैवे! शिवमनिच्छतः॥१५८॥ | त्वमद्याप्यनभिज्ञोऽसि राजनीतेः कुमारक ! । उत्पादयस्परि तत् तं कुक्षिमामृज्य शूलवत् ॥ १५९ ॥ त्वदुक्तं स्वामिने नैतद् वक्ष्ये तत् कुरु मद्वचः। त्वत्प्रसादात् क्षेममस्तु चिरं ते सह बन्धुना ॥१६॥ अन्यथा तु द्विषन् भावी स एव न चिरात् तव । तस्मिन् रुष्टे कूतान्ते च जीवितस्यापि संशयः॥१६१॥
एवं तदुक्त्याऽभ्यधिकमुद्यत्क्रोधोऽभ्यधाद्धरिः । त्वमेव दूत! दूतोऽसि निरपेक्षा खजीविते ॥ १६२ ॥ ____ *कोपोऽभू संवृ० का०॥ १ वक्रीकृतभालः। स्तिसम संवृ०॥ २ यदि स ईदृशं वाचिकं न दद्यात् तस्य | शुचो ज्ञापकं स्यात् तत्तु नास्तीति भावः। ति । तं प्रवर्धयते को हि कु° । संवृ०॥ ३ तिरस्कर्ता। ४ भुजापेक्षा । ५ हे| शिवपुत्र! °क! | तेनोत्पादयसेऽरिं तं संवृ०॥ मद्वचनानुसरणरूपात् स्वरप्रसादादित्यर्थः । ७ यमरूपे।
॥४२३॥
Jain Education Inter
!
For Private & Personal use only
www.jainelibrary.org