SearchBrowseAboutContactDonate
Page Preview
Page 525
Loading...
Download File
Download File
Page Text
________________ Jain Education भूयो भूयो जगन्नाथ ! त्वामदः प्रार्थयामहे । त्वत्पादपङ्कजद्वन्द्वेऽस्मन्मनो भ्रमरायताम् ॥ २१७ ॥ एवं स्तुत्वा विरतेषु शक्र - केशव -सीरिषु । विदधे भगवान् धर्मखाम्येवं धर्मदेशनाम् ॥ २९८ ॥ चतुर्वर्गेऽग्रणीर्मोक्षो योगस्तस्य च कारणम् । ज्ञान - श्रद्धान- चारित्ररूपं रत्नत्रयं च सः ॥ २१९ ॥ तत्वानुगा मतिर्ज्ञानं सम्यक् श्रद्धा तु दर्शनम् । सर्वसावद्ययोगानां त्यागश्चारित्रमिष्यते ।। २२० ।। आत्मैव दर्शन -ज्ञान- चारित्राण्यथवा यतेः । येत् तदात्मक एवैष शरीरमधितिष्ठति ।। २२१ ॥ आत्मानमात्मना वेति मोहत्यागाद् य आत्मनि । तदेव तस्य चारित्रं तज्ज्ञानं तच्च दर्शनम् ॥ २२२ ॥ आत्माऽज्ञानभवं दुःखमात्मज्ञानेन हन्यते । तपसाऽप्यात्मविज्ञानहीनैश्छेत्तुं न शक्यते ॥ २२३ ॥ अयमात्मैव चिद्रूपः शरीरी कर्मयोगतः । ध्यानाग्निदग्धकर्मा तु सिद्धात्मा स्यान्निरञ्जनः ॥ २२४ ॥ अयमात्मैव संसारः कषायेन्द्रियनिर्जितः । तमेव तद्विजेतारं मोक्षमाहुर्मनीषिणः ।। २२५ ।। स्युः कषायाः क्रोध-मान-माया-लोभाः शरीरिणाम् । चतुर्विधास्ते प्रत्येकं भेदैः संज्वलनादिभिः ॥२२६॥ पक्षं संज्वलनः प्रत्याख्यानो मासचतुष्टयम् । अप्रत्याख्यानको वर्ष जैन्मानन्तानुबन्धकः ।। २२७ ॥ वीतराग-यति-श्राद्ध-सम्यग्दृष्टित्वघातकाः । ते देवत्व-मनुष्यत्व- तिर्यक्त्व- नरकप्रदाः ॥ २२८ ॥ तत्रोपतापकः क्रोधः क्रोधो वैरस्य कारणम् । दुर्गतेर्वर्तनी' क्रोधः क्रोधः शमसुखार्गला ॥ २२९ ॥ १ मोक्षस्य । २ योगः । * ज्ञानं तत्त्वावबोधः स्यात् स० सं० ॥ ३ यत् यस्मात् कारणात् दर्शन- ज्ञान चारित्रास्मक एवैष आत्मा ॥ ४ आत्मनोऽज्ञानभवम् । ५ कथायेन्द्रियजेतारं तमात्मानमेव मोक्षमाहुः । ६ जम्मपर्यन्तम् । ७ संज्वलनो वीतरागश्वघातकः प्रत्याख्यानश्च यतित्वघातक इत्याद्यनुक्रमेण । ८ संज्वलनो देवत्वप्रद इत्यादि । ९ मार्गः । For Private & Personal Use Only श्रीधर्मनाथजिनस्य धर्मदेशना । www.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy