Book Title: Trishashti Shalaka Purush Charita Mahakavyam_02
Author(s): Hemchandracharya, Charanvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 523
________________ Jain Education Int पुष्पवृष्टिरेर्मूर्ध्नि मूर्धन्यस्य तैरखिनाम् । पपात गगनात् सद्यो जयश्रीहाससन्निभा ॥ १८९ ॥ तयैव यात्रा विष्णुर्भरतार्घमसाघयत् । सहस्रधा हि फलति व्यवसायो महात्मनाम् ॥ १९० ॥ दिग्यात्राया निवृत्तोऽथ मगधेष्वागतो हरिः । दोष्णोदधे कोटिशिलां मृत्पात्रमिव लीलया । १९१ ॥ मेदिनीं छादयन्नश्वर्य याच श्वपुरं हरिः । विवेशितः पुरस्त्रीभिः कल्पितार्थः पदे पदे ॥ ९९२ ॥ तत्र लाङ्गलिनाsन्यैश्च राजभिर्भक्तिराजिभिः । अर्धचक्रधरत्वाभिषेकोऽक्रियत शार्ङ्गिणः ।। १९३ ॥ इतश्च भगवान् धर्मश्छद्मस्थो वत्सरद्वयम् । विहृत्याभ्यागमद् दीक्षोपवनं वप्रकाञ्चनम् ।। १९४ ॥ दधिपर्णतले तत्र ध्यानान्तरेंजुषः प्रभोः । पुष्ये मे पौषराकायां षष्ठेनाजनि केवलम् ।। ९९५ ।। दिव्ये समवसरणे देशनां विदधे विभुः । अरिष्टादीन् गणभृतस्त्रिचत्वारिंशतं तथा ।। १९६ ॥ तत्तीर्थभूः किंनराख्यख्यास्यः कूर्मरथोऽरुणः । दक्षिणैस्तु मातुलिजिंगदाभृदभयप्रदैः ॥ १९७ ॥ arted नकुलपद्माक्षमालामालिभिर्भुजैः । भ्राजिष्णुर्धर्मनाथस्य जज्ञे शासनदेवता ॥ १९८ ॥ तथोत्पन्ना च कन्दर्पा गौराङ्गी मत्स्यवाहना । उत्पलाङ्कुशधारिभ्यां दक्षिणाभ्यां विराजिता ॥ १९९ ॥ दोभ्यां तदितराभ्यां च पद्मिनाऽभयदेन च । प्रभोः शासनदेव्यासीत् सदा सन्निधिवर्तिनी ॥ २०० ॥ सेव्यमानः सदा ताभ्यां विहरन्नवनीमिमाम् । अपरेद्युरुपागच्छत् पुरमश्वपुरं प्रभुः ॥ २०१ ॥ सद्यः समवसरणं चक्रे शक्रादिभिः सुरैः । चत्वारिंशत्पश्ञ्चधन्वशतोच्चाशोकपादपम् ॥ २०२ ॥ १ बलवताम् । २ मृत्तिकापात्रम् । * रमुपेयुषः । पु० [सं० ॥ ३ त्रिमुखः । ख्याक्षः कू सं० ॥ °लिङ्गग" संवृ० ॥ For Private & Personal Use Only श्रीधर्मनाथजिनस्य कैवल्यं सम वसरणं च । www.jainelibrary.org

Loading...

Page Navigation
1 ... 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574