Book Title: Trishashti Shalaka Purush Charita Mahakavyam_02
Author(s): Hemchandracharya, Charanvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 529
________________ त्रिषष्टि ७३ Jain Education I स्वबुद्ध्या रचितान्यन्यैः शास्त्राण्याघ्राय लीलया । सर्वज्ञोऽस्मीति मदवान् खकीयाङ्गानि खादति ॥ २७९ ॥ श्रीमद्गुणधरेन्द्राणां श्रुत्वा निर्माणधारणम् । कः श्रयेत श्रुतमदं सकर्णहृदयो जनः ॥ २७२ ॥ उत्सर्पयन् दोषशाखां गुणमूलान्यधो नयन् । उन्मूलनीयो मानदुस्तन्मार्दवसरित्प्लवैः ॥ २७३ ॥ मार्दवं नाम मृदुता तच्चौद्धत्यनिषेधनम् । मानस्य पुनरौद्धत्यं स्वरूपमनुपाधिकम् ॥ २७४ ॥ अन्तः स्पृशेद् यत्र यत्रौद्धत्यं जात्यादि गोचरम् । तत्र तस्य प्रतीकारहेतोर्मार्दवमाश्रयेत् ।। २७५ ।। सर्वत्र मार्दवं कुर्यात् पूज्येषु तु विशेषतः । येन पापाद् विमुच्येत पूज्यपूजाव्यतिक्रमात् ॥ २७६ ॥ मानाद् बाहुबलिर्बद्धो लताभिरिव पाप्मभिः । मार्दवात् तत्क्षणं मुक्तः सद्यः संप्राप केवलम् ॥ २७७ ॥ चक्रवर्ती त्यक्तसंगो वैरिणामपि वेश्मसु । भिक्षायै यात्यहो ! मानच्छेदाय मृदुमार्दवम् ॥ २७८ ॥ चक्रवर्त्यपि तत्कालदीक्षितो रङ्कसाधवे । नमस्यति त्यक्तमानचिरं च वैरिवस्यति ॥ २७९ ॥ एवं च मानविषयं ज्ञात्वा दोषमशेषतः । अश्रान्तमाश्रयेद् धीमांस्तन्निरासाय मार्दवम् ॥ २८० ॥ अनृतस्य जननी परशुः शीलशाखिनः । जन्मभूमिरविद्यानां माया दुर्गतिकारणम् ॥ २८९ ॥ कौटिल्यपटवः पापा मायया बकवृत्तयः । भुवनं वञ्चयमाना वञ्चयन्ते स्वमेव हि ॥ २८२ ॥ १ अन्यैराचार्यैः स्वबुद्ध्या लीलामात्रेण रचितानि शास्त्राण्याघ्राय किञ्चिज्ज्ञात्वेत्यर्थः । * रणे । कः संवृ० ॥ २ विस्तारयन् । ३ अमृदु कठिनं च तम्मार्दवं चेत्यमृदुमार्दवम् । ४ नमस्यति नमः करोति पूजयतीत्यर्थः । ५ वरिवस्यति वरिषः करोति सेवते इत्यर्थः । अत्र 'नमस्' ' वरिवस्' इत्यतः "नमोषरिवश्चित्र ङ्गोऽर्चासे वाऽऽश्वयें" [३.४.३१ ] इति सूत्राद् अर्थायाम्, सेवायाम् च यथाक्रमेण क्यन् प्रत्ययाद् नमस्यति, दरिवस्यति इति सिद्ध्यतः । ६ निरन्तरम् । ७ असत्यस्य । For Private & Personal Use Only www.jainelibrary.org.

Loading...

Page Navigation
1 ... 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574