Book Title: Trishashti Shalaka Purush Charita Mahakavyam_02
Author(s): Hemchandracharya, Charanvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 533
________________ भूषणोद्यानवाप्यादौ मूच्छितास्त्रिदशा अपि । च्युत्वा तत्रैव जायन्ते पृथ्वीकायादियोनिषु ॥ ३२१॥ प्राप्योपशान्तमोहत्वं क्रोधादिविजये सति । लोभांशमात्रदोषेण पतन्ति यतयोऽपि हि ॥३२२॥ एकामिषाभिलाषेण सारमेया इव द्रुतम् । सोदर्या अपि युध्यन्ते धनलेशजिघृक्षया ॥ ३२३ ॥ लोभाद् ग्रामादिसीमानमुद्दिश्य गतसौहृदाः । ग्राम्या नियुक्ता राजानो वैरायन्ते परस्परम् ॥३२४॥ हास-शोक-द्वेष-हर्षानसतोऽप्यात्मनि स्फुटम् । स्वामिनोऽग्रे लोभवन्तो नाटयन्ति नटा इव ॥ ३२५॥ आरभ्यते पूरयितुं लोभगतॊ यथा यथा । तथा तथा महच्चित्रं मुहुरेष विवर्धते ॥ ३२६ ॥ अपि नामैष पूर्यंत पयोभिः पयसां पतिः। न तु त्रैलोक्यराज्येऽपि प्राप्ते लोभः प्रपूर्यते ॥ ३२७॥ अनन्ता भोजनाच्छादविषयद्रव्यसंचयाः। भुक्तास्तथापि लोभस्य नांशोऽपि परिपूर्यते ॥ ३२८॥ लोभैस्त्यक्तो यदि तदा तपोभिरफलैरलम् । लोभस्त्यक्तो न चेत् तर्हि तपोभिरफलैरलम् ॥ ३२९॥ मृदित्वा शास्त्रसर्वस्वं तदेतदवधार्यताम् । लोभस्यैकस्य हानाय प्रयतेत महामतिः॥ ३३०॥ लोभसागरमुढेलमतिवेल महामतिः। संतोषसेतुबन्धेन प्रसरन्तं निवारयेत् ॥ ३३१॥ आमिषम्-मांसम् , भक्ष्यं वा। २ अधिकारिणः। ३ आच्छादा-वस्त्राणि । ४ लोभरहितस्य पुरुषस्य तपःसदृशं फलं। | भवत्यत एव तपांसि निष्फलानि, लोभसहितस्य च तपस्सु तप्तेष्वपि फलं न भवतीति तपांसि निष्फलानीति भावः। ५ नाथाय । ६ वेलां मर्यादामतिक्रान्तस्तम् । Jain Education seal For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574