Book Title: Trishashti Shalaka Purush Charita Mahakavyam_02
Author(s): Hemchandracharya, Charanvijay
Publisher: Atmanand Jain Sabha
View full book text ________________
चतुर्थ पर्व
त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये
पञ्चमः
सर्गः
श्रीधर्मनाथजिनचरितम् ।
॥४२९॥
अपि Qताब्धिपारीणाः सर्वे गणभृदुत्तमाः । अहो ! शैक्षाश्चाश्रौषुरार्जवादहतां गिरः॥ ३०८॥ अशेषमपि दुःकर्म ऋज्वालोचनया क्षिपेत् । कुटिलालोचनां कुर्वनल्पीयोऽपि विवर्धते ॥ ३०९॥ काये वचसि चित्ते च समन्तात् कुटिलात्मनाम् । न मोक्षः किन्तु मोक्षः स्यात् सर्वत्राकुटिलात्मनाम् ॥३१०॥ इत्युग्रं कर्म कौटिल्यं कुटिलानां विभावयन । आश्रयेदृजुतामेकां सुधीनिर्वृतिकाम्यया ॥ ३११ ॥ आकरः सर्वदोषाणां गुणग्रसनराक्षसः । कन्दो व्यसनवल्लीनां लोभः सर्वार्थबाधकः ॥ ३१२ ॥ धनहीनः शतमेकं सहस्रं शतवानपि । सहस्राधिपतिर्लक्ष कोटिं लक्षेश्वरोऽपि च ॥ ३१३ ॥ कोटीश्वरो नरेन्द्रत्वं नरेन्द्रश्चक्रवर्तिताम् । चक्रवर्ती च देवत्वं देवोऽपीन्द्रत्वमिच्छति ॥ ३१४॥ इन्द्रत्वेऽपि हि संप्राप्ते यदिच्छा न निवर्तते । मले लघीयांस्तल्लोभः सराव इव वर्धते ॥ ३१५॥ हिंसेव सर्वपापानां मिथ्यात्वमिव कर्मणाम् । राजयक्ष्मेव रोगाणां लोभः सर्वागसां गुरुः ॥ ३१६ ॥ अहो! लोभस्य साम्राज्यमेकच्छवं महीतले । तरवोऽपि निधिं प्राप्य पादैः प्रच्छादयन्ति यत् ॥३१७॥ अपि द्रविणलोभेन ते द्वित्रिचतुरिन्द्रियाः । स्वकीयान्यधितिष्ठन्ति प्रानिधानानि मूर्छया ॥ ३१८॥ भुजङ्गगृहगोधाः स्युमुख्याः पञ्चेन्द्रिया अपि । धनलोभेन लीयन्ते निधानस्थानभूमिषु ॥ ३१९ ॥ पिशाच-मुद्गल-प्रेत-भृत-यक्षादयो धनम् । स्वकीयं परकीयं वाऽप्यधितिष्ठन्ति लोभतः॥३२०॥
SEARCRACC
॥४२९॥
१ श्रुतसमुद्रस्य पारगामिनः । २ शिष्याः। * 'वर्धयेत् ॥ संबृ. का.॥ ३ सर्वपापानाम् । ४ मूलैः । ५ मुद्गलाः-व्यन्तरविशेषाः।
Jain Education in
For Private & Personal use only
www.jainelibrary.org
Loading... Page Navigation 1 ... 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574