SearchBrowseAboutContactDonate
Page Preview
Page 532
Loading...
Download File
Download File
Page Text
________________ चतुर्थ पर्व त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये पञ्चमः सर्गः श्रीधर्मनाथजिनचरितम् । ॥४२९॥ अपि Qताब्धिपारीणाः सर्वे गणभृदुत्तमाः । अहो ! शैक्षाश्चाश्रौषुरार्जवादहतां गिरः॥ ३०८॥ अशेषमपि दुःकर्म ऋज्वालोचनया क्षिपेत् । कुटिलालोचनां कुर्वनल्पीयोऽपि विवर्धते ॥ ३०९॥ काये वचसि चित्ते च समन्तात् कुटिलात्मनाम् । न मोक्षः किन्तु मोक्षः स्यात् सर्वत्राकुटिलात्मनाम् ॥३१०॥ इत्युग्रं कर्म कौटिल्यं कुटिलानां विभावयन । आश्रयेदृजुतामेकां सुधीनिर्वृतिकाम्यया ॥ ३११ ॥ आकरः सर्वदोषाणां गुणग्रसनराक्षसः । कन्दो व्यसनवल्लीनां लोभः सर्वार्थबाधकः ॥ ३१२ ॥ धनहीनः शतमेकं सहस्रं शतवानपि । सहस्राधिपतिर्लक्ष कोटिं लक्षेश्वरोऽपि च ॥ ३१३ ॥ कोटीश्वरो नरेन्द्रत्वं नरेन्द्रश्चक्रवर्तिताम् । चक्रवर्ती च देवत्वं देवोऽपीन्द्रत्वमिच्छति ॥ ३१४॥ इन्द्रत्वेऽपि हि संप्राप्ते यदिच्छा न निवर्तते । मले लघीयांस्तल्लोभः सराव इव वर्धते ॥ ३१५॥ हिंसेव सर्वपापानां मिथ्यात्वमिव कर्मणाम् । राजयक्ष्मेव रोगाणां लोभः सर्वागसां गुरुः ॥ ३१६ ॥ अहो! लोभस्य साम्राज्यमेकच्छवं महीतले । तरवोऽपि निधिं प्राप्य पादैः प्रच्छादयन्ति यत् ॥३१७॥ अपि द्रविणलोभेन ते द्वित्रिचतुरिन्द्रियाः । स्वकीयान्यधितिष्ठन्ति प्रानिधानानि मूर्छया ॥ ३१८॥ भुजङ्गगृहगोधाः स्युमुख्याः पञ्चेन्द्रिया अपि । धनलोभेन लीयन्ते निधानस्थानभूमिषु ॥ ३१९ ॥ पिशाच-मुद्गल-प्रेत-भृत-यक्षादयो धनम् । स्वकीयं परकीयं वाऽप्यधितिष्ठन्ति लोभतः॥३२०॥ SEARCRACC ॥४२९॥ १ श्रुतसमुद्रस्य पारगामिनः । २ शिष्याः। * 'वर्धयेत् ॥ संबृ. का.॥ ३ सर्वपापानाम् । ४ मूलैः । ५ मुद्गलाः-व्यन्तरविशेषाः। Jain Education in For Private & Personal use only www.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy