Book Title: Trishashti Shalaka Purush Charita Mahakavyam_02
Author(s): Hemchandracharya, Charanvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 507
________________ Jain Education Inte तत्राप्यवरपौरुष्यां देशनाविरते सति । नत्वा प्रभुं ययुः स्वौकः शक्रोपेन्द्रबलादयः ॥ २९० ॥ ततः स्थानात् प्रभुरपि ग्रामा-ssकर- पुरादिषु । प्रबोधयन् भव्यजन्तून् विजहार वसुन्धराम् ॥ २९९ ॥ षष्टिः षट् च सहस्राणि श्रमणानां महात्मनाम् । तथा चतुर्दशपूर्वभृतां नव शतानि च ।। २९२ ॥ चतुःसहस्री त्रिशती चावधिज्ञानशालिनाम् । मनःपर्ययिणां पञ्च चत्वारिंशच्छतानि च ॥ २९३ ॥ तथा पञ्च सहस्राणि केवलज्ञानधारिणाम् । जातवैक्रियलब्धीनां सहस्राण्यष्टयोगिनाम् ॥ २९४ ॥ त्रिसहस्री शते द्वे च वादलब्धिमतां पुनः । आर्यिकाणां सहस्राणि द्वाषष्टिवतपाप्मनाम् ॥ २९५ ॥ श्रावकाणां पुनर्लक्षद्वयं षष्टिः शतानि च । श्राविकाणां चतुर्लक्षी चतुर्दशसहरुयपि ।। २९६ ॥ त्र्यन्दोनान्यन्दलक्षाणि सप्त सार्धानि केवलात् । महीं विहरमाणस्य परिवारोऽभवत् प्रभोः ।। २९७ ॥ स्वं मोक्षकालं ज्ञात्वा तु समेताद्रिमगात् प्रभुः । साधुसप्तसहरुया च सहानशनमाददे ।। २९८ ॥ मासान्ते चैत्रविशदपञ्चम्यां पौष्णगे विधौ । समं तैर्मुनिभिर्मोक्षं प्रपेदेऽनन्तजित् प्रभुः ॥ २९९ ॥ स्वामिनः स्वामिशिष्याणां तेषां चाभ्येत्य वासवाः । सामराचक्रिरे तत्र निर्वाणमहिमोत्सवम् ॥ ३०० ॥ कौमारे सप्त लक्षाणि सार्धानि शरदामथ । पृथिवीपालने वर्षलक्षाणि दश पञ्च च ।। ३०१ ।। अष्टावक्षाः प्रव्रज्यापरिपालने । इति त्रिंशद्वर्षलक्षाण्यनन्तजित आयुषि ॥ ३०२ ॥ विमलखामि निर्वाणादनन्तस्वामिनिर्वृतिः । व्यतिक्रान्तेषु नवसु वारिराशिष्वजायत ॥ ३०३ ॥ नां शताशीतिर्महात्मनाम् । सं० का० ॥ २ नष्टपापानाम् । ३ विशद: १ स्वस्वस्थानम् । * 'पर्याय' सं० ॥ शुक्लः । ४ सार्धसप्तलक्षाः । ५ सागरोपमेषु । For Private & Personal Use Only श्री अनन्तनाथ जनस्य परिवारादि । श्री अनन्तजिनस्य निर्वाणम् । www.jainelibrary.org

Loading...

Page Navigation
1 ... 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574