Book Title: Trishashti Shalaka Purush Charita Mahakavyam_02
Author(s): Hemchandracharya, Charanvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 480
________________ त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये SAMROCK *** चतुर्थ पर्व तृतीयः सर्गः |श्रीविमलनाथजिनचरितम्। ॥४०३॥ ARNOSS064646 शक्राद्यैस्तत्र समवसरणं विदधेऽमरैः । विंशत्यग्रधनुःसप्तशतोच्चाशोकपादपम् ॥ १८३॥ । तत्र प्रविश्य प्रागद्वारा भगवांश्चैत्यपादपम् । त्रिः प्रदक्षिणयामास पालयन्नाहतीं स्थितिम् ॥ १८४॥ 'तीर्थाय नमः'इत्युक्त्वा पूर्वाशाभिमुखं ततः । सिंहासनमलञ्चले धर्मचक्री त्रयोदशः ॥१८५॥ यथाद्वारं प्रविविशुर्यथास्थानं स्थितिं व्यधुः । साधवोऽथार्यिका देवा देव्यो नार्यो नरा अपि ॥१८६॥ तदा च द्वारकां गत्वा त्वरितं राजपूरुषाः । स्वामिनं समवसृतं शशंसुः शाङ्गपाणये ॥ १८७॥ खाम्यागमनशंसिभ्यः खयम्भूः पारितोषिके । सार्धा द्वादश रूप्यस्य कोटीः प्रमुदितो ददौ ॥ १८८॥ स्वयम्भूः सह भद्रेण भद्राणामेककारणम् । शीघ्रं समवसरणं जगाम प्रविवेश च ॥ १८९॥ तत्र प्रदक्षिणीकृत्य नत्वा च परमेश्वरम् । अनुशकं सभद्रोऽपि स्वयम्भूः समुपाविशत् ॥ १९॥ नत्वा जिनेन्द्रं भूयोऽपि रचिताञ्जलिसंपुटाः । एवमारेभिरे स्तोतुं वज्रभृच्छामृद्धलाः ॥ १९१ ॥ देव! त्वदर्शनेनाद्य दुःखं सांसारिकं ययौं । शरीरिणां भुवः पङ्क इव वार्षिकवारिणा ॥ १९२ ॥ पुण्योऽयं दिवसः स्वामिस्त्वदर्शननिवन्धनम् । यत्रामलीभविष्यामो दुःकर्ममलिना वयम् ॥ १९३ ॥ अङ्गावयवराजत्वं प्रत्यपद्यन्त नो दृशः । यास्त्वदर्शनमासाद्य सद्योऽधुः शुद्धिमात्मनः ॥ १९४ ॥ पूतास्त्वत्पादसंपर्काद् भरतक्षेत्रभूमयः। अपि ताः पापनाशाय किं पुनस्तव दर्शनम् ॥ १९५॥ मिथ्यादृशामुलूकानामिव त्वदर्शनं प्रभो! । केवलालोकमार्तण्डतिरोभावनिवन्धनम् ।। १९६ ॥ त्वद्दर्शनसुधापानसमुच्छसितवर्मणाम् । अद्य देव! त्रुटिष्यन्ति कर्मबन्धाः शरीरिणाम् ॥ १९७ ॥ * ण्योदयं दिन वा संवृ.॥ १ वर्म-वपुः । USASHOSHIARIAUS ॥४०३॥ Jan Education in For Private & Personal use only

Loading...

Page Navigation
1 ... 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574