Book Title: Trishashti Shalaka Purush Charita Mahakavyam_02
Author(s): Hemchandracharya, Charanvijay
Publisher: Atmanand Jain Sabha
View full book text ________________
चतुर्थ पर्व
त्रिषष्टिशलाका
चतुर्थः
पुरुषचरिते महाकाव्ये
सर्गः श्रीअनन्तनाथजिनचरितम्।
॥४१५॥
विरताविरतस्तु स्यात् प्रत्याख्यानोदये सति । प्रमत्तसंयतः प्राप्तसंयमो यः प्रमाद्यति ॥ २५५॥ सोऽप्रमत्तसंयतो यः संयमी न प्रमाद्यति । उभावपि परावृत्त्या स्यातामान्तर्मुहूर्तिको ॥ २५६ ॥ कर्मणां स्थितिघातादीनपूर्वान् कुरुते यतः। तस्मादपूर्वकरणः क्षपकः शमकश्च सः॥ २५७॥ यद्वादरकपायाणां प्रविष्टानामिमं मिथः । परिणामा निवर्तन्ते निवृत्तिवादरोऽपि सः॥ २५८॥ परिणामा निवर्तन्ते मिथो यत्र न यत्नतः । अनिवृत्तिबादरः स्यात् क्षपकः शमकश्च सः ॥२५९ ॥ लोभाभिधः संपरायः सूक्ष्मकिड्डीकृतो यतः । स सूक्ष्मसंपरायः स्यात् क्षपकः शमकोऽपि च ॥२६॥ अथोपशान्तमोहः स्यान्मोहस्योमशमे सति । मोहस्य तु क्षये जाते क्षीणमोहं प्रचक्षते ॥२६१॥ सयोगिकेवली घातिक्षयादुत्पन्न केवलः। योगानां च क्षये जाते स एवायोगिकेवली इति॥२६२॥ जीवतत्त्वम्॥
अजीवाः स्युर्धर्माधर्मविहाय कालपुद्धलाः। जीवेन सह पश्चापि द्रव्याण्येते निवेदिताः॥ २६३ ॥ तत्र कालं विना सर्वे प्रदेशप्रचयात्मकाः। विना जीवमचिद्रूपा अकारश्च ते मताः ॥ २६४॥ कालं विनाऽस्तिकायाः स्युरमृर्ताः पुद्गलं विना । उत्पाद-विगम-ध्रौव्यात्मानः सर्वेऽपि ते पुनः॥२६५॥ पुद्गलाः स्युः स्पर्श-रस-गन्ध वर्णस्वरूपिणः । तेऽणुस्कन्धतया द्वेधा तत्राबद्धाः किलाणवः ॥ २६६ ॥
क्षपकश्श्रेणिकः। २ उपशम श्रेणिकः । ३ इममपूर्वकरणं प्रविष्टानां साधूनां यद्यस्माद् बादरकषावाणां क्रोधादीनां परिणामा | निवर्तन्तेऽतः स निवृत्तिबावरोऽपि कम्यते। • संवृ. का. भादर्शयोनास्वेतत् पदयम् ॥ ४ विहाफ-आकाशासिकाया। ५प्रदेशसमूहरूपाः।
॥४१५॥
Jain Education Intel
For Private & Personal use only
www.jainelibrary.org.
Loading... Page Navigation 1 ... 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574