SearchBrowseAboutContactDonate
Page Preview
Page 504
Loading...
Download File
Download File
Page Text
________________ चतुर्थ पर्व त्रिषष्टिशलाका चतुर्थः पुरुषचरिते महाकाव्ये सर्गः श्रीअनन्तनाथजिनचरितम्। ॥४१५॥ विरताविरतस्तु स्यात् प्रत्याख्यानोदये सति । प्रमत्तसंयतः प्राप्तसंयमो यः प्रमाद्यति ॥ २५५॥ सोऽप्रमत्तसंयतो यः संयमी न प्रमाद्यति । उभावपि परावृत्त्या स्यातामान्तर्मुहूर्तिको ॥ २५६ ॥ कर्मणां स्थितिघातादीनपूर्वान् कुरुते यतः। तस्मादपूर्वकरणः क्षपकः शमकश्च सः॥ २५७॥ यद्वादरकपायाणां प्रविष्टानामिमं मिथः । परिणामा निवर्तन्ते निवृत्तिवादरोऽपि सः॥ २५८॥ परिणामा निवर्तन्ते मिथो यत्र न यत्नतः । अनिवृत्तिबादरः स्यात् क्षपकः शमकश्च सः ॥२५९ ॥ लोभाभिधः संपरायः सूक्ष्मकिड्डीकृतो यतः । स सूक्ष्मसंपरायः स्यात् क्षपकः शमकोऽपि च ॥२६॥ अथोपशान्तमोहः स्यान्मोहस्योमशमे सति । मोहस्य तु क्षये जाते क्षीणमोहं प्रचक्षते ॥२६१॥ सयोगिकेवली घातिक्षयादुत्पन्न केवलः। योगानां च क्षये जाते स एवायोगिकेवली इति॥२६२॥ जीवतत्त्वम्॥ अजीवाः स्युर्धर्माधर्मविहाय कालपुद्धलाः। जीवेन सह पश्चापि द्रव्याण्येते निवेदिताः॥ २६३ ॥ तत्र कालं विना सर्वे प्रदेशप्रचयात्मकाः। विना जीवमचिद्रूपा अकारश्च ते मताः ॥ २६४॥ कालं विनाऽस्तिकायाः स्युरमृर्ताः पुद्गलं विना । उत्पाद-विगम-ध्रौव्यात्मानः सर्वेऽपि ते पुनः॥२६५॥ पुद्गलाः स्युः स्पर्श-रस-गन्ध वर्णस्वरूपिणः । तेऽणुस्कन्धतया द्वेधा तत्राबद्धाः किलाणवः ॥ २६६ ॥ क्षपकश्श्रेणिकः। २ उपशम श्रेणिकः । ३ इममपूर्वकरणं प्रविष्टानां साधूनां यद्यस्माद् बादरकषावाणां क्रोधादीनां परिणामा | निवर्तन्तेऽतः स निवृत्तिबावरोऽपि कम्यते। • संवृ. का. भादर्शयोनास्वेतत् पदयम् ॥ ४ विहाफ-आकाशासिकाया। ५प्रदेशसमूहरूपाः। ॥४१५॥ Jain Education Intel For Private & Personal use only www.jainelibrary.org.
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy