SearchBrowseAboutContactDonate
Page Preview
Page 505
Loading...
Download File
Download File
Page Text
________________ बद्धाः स्कन्धा गन्ध-शब्द-सौम्य-स्थौल्याकृतिस्पृशः अन्धकारा-ऽऽतपोद्योतभेदच्छायात्मका अपि॥२६॥ कर्म-काय-मनो-भाषा-चेष्टितोच्छासदायिनः । सुखदुःख-जीवितव्य-मृत्युपग्रहकारिणः ॥२६८॥ प्रत्येकमेकद्रव्याणि धर्माधर्मो नमोऽपि च । अमूर्तानि निष्क्रियाणि स्थिराण्यपि च सर्वदा ॥ २६९॥ एकजीवपरिमाणसंख्यातीतप्रदेशको । लोकाकाशमभिव्याप्य धर्माधर्मों व्यवस्थितौ ॥ २७०॥ स्वयं गन्तुं प्रवृत्तेषु जीवाजीवेषु सर्वतः । सहकारी भवेद् धर्मः पानीयमिव यादसाम् ॥ २७१॥ जीवानां पुद्गलानां च प्रपन्नानां खयं स्थितिम् । अधर्मः सहकार्यप यथा छायाऽध्वयायिनाम् ॥२७२॥ सर्वगं खप्रतिष्ठं स्यादाकाशमवकाशदम । लोकालोको स्थितं व्याप्य तदनन्तप्रदेशभाक् ॥ २७३ ॥ लोकाकाशप्रदेशस्था भिन्नाः कालाणवस्तु ये । भावानां परिवर्ताय मुख्यकालः स उच्यते ॥ २७४ ॥ ज्योतिःशास्त्रे यस्य मानमुच्यते समयादिकम् । स व्यावहारिकः कालः कालवेदिभिरामतः ॥ २७५ ॥ नवजीर्णादिरूपेण यदमी भवनोदरे । पदार्थाः परिवर्तन्ते तत् कालस्यैव चेष्टितम् ॥ २७६ ॥ वर्तमाना अतीतत्वं भाविनो वर्तमानताम् । पदार्थाः प्रतिपद्यन्ते कालक्रीडाविडम्बिताः॥ २७७॥ इति अजीवतत्त्वम् ॥ मनो-वचन-कायानां यत् स्यात् कर्म स आश्रवः । शुभः शुभस्य हेतुः स्वादशुभस्त्वशुभस्य सः॥२७८।। इति आश्रवतत्त्वम् । झानावरणीयादि कर्म। * देशिकी। संवृ०॥ याधिया संव०॥ संवृ० का. आदर्शयोः 'इति' पदं नास्ति । च । संवृ०॥1 संवृ० का. आदर्शयोः 'इति आश्रवतत्सम्' इत्यस्य स्थाने 'आश्रवः' इति पदम् ॥ त्रिषष्टि.१४ स्य Jain Education Inter i For Private & Personal use only lwww.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy