________________
त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये
REKHA
चतुर्थ पर्व
चतुर्थः । सर्गः श्रीअनन्तनाथजिनचरितम् ।
॥४१६॥
सर्वेषामाश्रवाणां यो रोधहेतुः स संवरः। कर्मणां भवहेतूनां औरणादिह निर्जरा ॥ २७९ ॥
इति संवर-निर्जरे तत्वे ॥ सकषायतया जीवः कर्मयोग्यांस्तु पुद्गलान् । यदादत्ते स बन्धः स्याजीवास्वातव्यकारणम् ॥ २८॥ प्रकृति-स्थित्यनुभाव-प्रदेशा विधयोऽस्य तु । प्रकृतिस्तु खभावः स्याज्ज्ञानावृत्त्यादिरष्टधा ।। २८१ ॥ ज्ञान-दृष्ट्यावृती वेद्य मोहनीयायुषी अपि । नाम-गोत्रान्तरायाश्च मूलप्रकृतयो मताः ॥ २८२ ॥ निष्कर्षोत्कर्षतः कालनियमः कर्मणां स्थितिः । अनुभावो विपाकः स्यात् प्रदेशोंऽशप्रकल्पनम् ॥२८३॥ मिथ्यादृष्टिरविरतिप्रमादौ च क्रुधादयः । योगेन सह पञ्चैते विज्ञेया बन्धहेतवः ॥ २८४॥
इंति बन्धतत्त्वम् । अभावे बन्धहेतूनां घातिकर्मक्षयोद्भवे । केवले सति मोक्षः स्थाच्छेषाणां कर्मणां क्षये ॥ २८५॥ सुरा-ऽसुर-नरेन्द्राणां यत् सुखं भुवनत्रये । स स्यादनन्तभागोऽपि न मोक्षसुखसंपदः॥ २८६ ॥
इति मोक्षतत्त्वम् ॥ एवं तत्त्वानि जाननो जनो जगति जातुचित् । न निमज्जति संसारे वारिधाविव तारकः ॥ २८७ ।। एवं देशनया भर्तुः प्राज्याः पर्यव्रजञ्जनाः । भेजे हरिस्तु सम्यक्त्वं श्रावकत्वं च सुप्रभः॥२८८ ॥ व्यरंसीदादिपौरुष्यां देशेनातो जगत्पतिः । यशास्तत्पादपीठस्थो गणभृद् देशनां व्यधात् ॥ २८९ ॥
१क्षयात् । * संवृ० का. आदर्शयोः इति 'संवर-निर्जरे तत्त्वे' इत्यस्य स्थाने 'संवरनिर्जरे' इति पदम् ॥ २ अस्य बन्धस्य चत्वारः प्रकारा:-प्रकृतिः, स्थितिः, अनुभावः, प्रदेशश्चेति । ३ ज्ञानावरणादिः । ४ ज्ञानावरणम् , दर्शनावरणं च । ५ जघन्यतः उत्कृष्टतश्च कर्मणां कालनियमः सा स्थितिः। निकर्ष मु०॥ ६ कर्मणां विपाकोऽनुभावः । क्रुिदादयः संवृ० का संवृ० का० आद. |शयोः 'इति' पदं नास्ति ॥णां जये। मु०॥ संबृ० का आदर्शयोः पदद्वयं नास्ति ॥ ७ बहवः। * नान्ते ज०संबृ० का०॥
SEOSESSO RISUASA SCRESS
॥४१६॥
Jain Education in
For Private & Personal use only
www.jainelibrary.org