________________
AMROSALESCALCU
षट् पुनर्विकलाक्षेषु मनुष्येषु चतुर्दश । स्युश्चतस्रश्चतस्रश्च श्वनि-तिर्यक्-सुरेषु तु ॥२४४॥ एवं लक्षाणि योनीनामशीतिश्चतुरुत्तरी । केवलज्ञानदृष्टानि सर्वेषामपि जन्मिनाम् ॥ २४५॥ एकाक्षा बादराः सूक्ष्माः पञ्चाक्षाः संझ्यसंज्ञिनः । स्युद्धि-त्रि-चतुरक्षाश्च पर्याप्ता इतरेऽपि च ॥ २४६॥ एतानि जीवस्थानानि मयोक्तानि चतुर्दश । मार्गणा अपि तावत्यो ज्ञेयास्ता नामतो यथा ॥ २४७॥ गतीन्द्रिय-काय-योग-वेद-ज्ञान-कुँधादयः । संयमा-ऽऽहार-दृग्-लेश्या-भव्य-सम्यक्त्व-संज्ञिनः॥२४८॥
मिथ्यादृष्टिः सास्वादन-सम्यगमिथ्यादृशावपि । अविरतसम्यग्दृष्टिविरताविरतोऽपि च ॥ २४९॥ प्रमत्तश्चाप्रमत्तश्च निबृत्तिबादरस्ततः । अनिवृत्तिवादरश्चाथ सूक्ष्मसंपरायकः ॥ २५०॥ ततः प्रशान्तमोहश्च क्षीणमोहश्च योगवान् । अयोगवानिति गुणस्थानानि स्युश्चतुर्दश ॥ २५१ ॥ मिथ्यादृष्टिर्भवेन्मिथ्यादर्शनस्योदये सति । गुणस्थानत्वमेतस्य भद्रकत्वाद्यपेक्षया ॥ २५२ ॥ मिथ्यात्वस्यानुदयेऽनन्तानुबन्ध्युदये सति । सास्वादनसम्यग्दृष्टिः स्यादुत्कर्षात् पडावलीः ॥ २५३ ॥ सम्यक्त्वमिथ्यात्वयोगान्मुहूर्त मिश्रदर्शनः । अविरतसम्यग्दृष्टिरप्रत्याख्यानकोदये ॥ २५४ ॥
RRER
१ नारक-तिर्यक्-देवेषु । * रा । सर्वज्ञ पक्षमुक्तानि स० संबृ० ॥ २ बादरेकेन्द्रियाः सूक्ष्मैकेन्द्रियाः, संज्ञिपोन्द्रियाः, | असंज्ञिपञ्चेन्द्रियाः, द्वीन्द्रियाः, त्रीन्द्रियाः, चतुरिन्द्रियाश्चेति सप्त पर्याप्तास्तथैवापर्याप्ताश्चेति चतुर्दश जीवस्थानानि । "नि जिनोक्ता संबृ०।३ चतुर्दश। दादयः संवृ० का० ॥ ४ क्रोधादयः कषायाः। ५ सम्यगमिथ्याग् इत्यस्य मिश्रगुणस्थानमित्यपि नामान्तरम्। ६ देशविरतिगुणस्थानम् । . अपूर्वकरणगुणस्थानमित्यप्यस्य नामान्तरम् । ८ उपशान्तमोहः इति नाम्ना प्रसिद्धिः। ९ सयोगिकेवली।
Jan Education inte
For Prate & Personal use only
www.jainelibrary.org.