________________
त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये
चतुर्थ पर्व चतुर्थः
सर्गः श्रीअनन्तनाथजिनचरितम् ।
॥४१४॥
द्वीन्द्रियाः कृमयः शङ्खा गण्डूपदा जलौकसः । कपर्दाः शुक्तिकाद्याश्च विविधाः कृमयो मताः ॥२३४॥ यूका-मत्कुण-मत्कोट-लिक्षाद्यास्त्रीन्द्रिया मताः। पतङ्ग-मक्षिका-भृङ्ग-दंशाद्याश्चतुरिन्द्रियाः ॥ २३५॥ तिर्यग्योनिभवाः शेषा जल-स्थल-खचारिणः । नारका मानवा देवाः सर्वे पश्चेन्द्रिया मताः॥ २३६ ॥ मनो-भाषा-कायबलत्रयमिन्द्रियपश्चकम् । आयुरुच्छासनिःश्वासमिति प्राणा दश स्मृताः ॥ २३७॥ सर्वजीवेषु देहायुरुच्छासा इन्द्रियाणि च । विकलासंज्ञिनां भाषा पूर्णानां संज्ञिनां मनः ॥ २३८ ॥ उपपाद(त)भवा देव-नारका गर्भजाः पुनः । जरायुःपोताण्डभवाः शेषाः संमृर्छनोद्भवाः ॥ २३९ ॥ संमूर्छिनो नारकाच जीवाः पापा नपुंसकाः । देवाः स्त्री-पुंसवेदाः स्युर्वेदत्रयजुषः परे ॥ २४०॥ सर्वे जीवा व्यवहार्यव्यवहारितया द्विधा । सूक्ष्मनिगोदा एवान्त्यास्तेभ्योऽन्ये व्यवहारिणः॥२४१॥ सचित्तः संवृतः शीतस्तदैन्यो मिश्रितोऽपि वा । विभेदैरान्तभिन्नो नवधा योनिरङ्गिनाम् ॥ २४२ ॥ प्रत्येकं सप्त लक्षाश्च पृथ्वी-वार्यग्नि-वायुषु । प्रत्येकानन्तकायेषु क्रमाद् दश चतुर्दश ॥ २४३ ॥
भूम्यन्तर्गतजन्तुविशेषाः, 'गंडोळा' भाषायाम् । २ युका-मत्कुण-मरकोट-लिशाद्याः-भाषायाम्-'जू', 'मांकड', 'बगइ', 'लीख' । ३ यथा द्वीन्द्रियाणां कायाऽऽयुरुच्छ्वासाः स्पर्शन-रसनेन्द्रियद्वयं भाषा चेति षद प्राणास्तथैव त्रीन्द्रियाणां चतुरिन्द्रिया| णामसंज्ञिपञ्चेन्द्रियाणां च क्रमात् स्वस्वेन्द्रियवृझ्या सप्लाष्टौ नव च प्राणाः संज्ञिनां तु मनःसहिता दशेति तात्पर्यम् । ४ ये जीवा | जरायुःपोताण्डभवास्ते गर्भजाः कथ्यन्ते । ५ गर्भजाः प्राणिनः। ६ ये सूक्ष्मनिगोदास्तेऽव्यवहारिणः । ७ सचित्तादन्योऽचित्ता, | संवृतविवृतादन्यो विवृतः, शीतादन्य उष्णः। ८ सचित्ताचित्तः, संवृतविवृतः शीतोष्ण इत्यर्थः। *क्षाणि पृ संबृ०॥ ९ प्रत्येकवनस्पतिकायेषु दशलक्षा, अनन्तकायेषु-साधारणवनस्पतिकायेषु चतुर्दशलक्षाः।
॥४१४॥
Jan Education in
For Private & Personal use only
www.jainelibrary.org