________________
श्रीअनन्तनाथजिनस्य धर्मदेशना।
विषयः कषायरागद्वेषमोहैरनिर्जिताः। भूपास स्वत्प्रसादेन प्रसीद परमेश्वर।॥ २२० ॥ स्तुत्वैवं कृतमौनेषु शकमध्वरिसीरिषु । अनन्तनाथो भगवान् विदधे देशनामिति ॥ २२१ ॥
अतत्त्वविदुरो जन्तुरमार्गज्ञ इवाध्वगः । असिन् संसारकान्तारे बम्भ्रमीति दुरुत्तरे ॥ २२२ ॥ जीवाजीवावाश्रवश्व संवरो निर्जरा तथा । बन्धो मोक्षश्चेति सप्त तत्त्वान्याहुर्मनीषिणः ॥ २२३ ॥ तत्र जीवा द्विधा ज्ञेया मुक्तसंसारिभेदतः। अनादिनिधनाः सर्वे ज्ञान-दर्शनलक्षणाः ॥ २२४ ॥ मुक्ता एकस्वभावाः स्युर्जन्मादिक्लेशवर्जिताः । अनन्तदर्शनज्ञानवीर्यानन्दमयाश्च ते ॥ २२५॥ संसारिणो द्विधा जीवाः स्थावर-त्रसभेदतः। द्वितयेऽपि द्विधा पर्याप्ता-ऽपर्याप्तविशेषतः ॥ २२६॥ पर्याप्तयस्तु षडिमाः पर्याप्तत्वनिवन्धनम् । आहारो वपुरक्षाणि प्राणो भाषा मनोऽपि च ॥ २२७॥ स्युरेकाक्ष-विकलाक्ष-पश्चाक्षाणां शरीरिणाम् । चतस्रः पश्च षट् चापि पर्याप्तयो यथाक्रमम् ॥ २२८ ।। एकाक्षाः स्थावरा भूम्यप्तेजोवायुमहीरुहः । तेषां तु पूर्वे चत्वारः स्युः सूक्ष्मा बादरा अपि ॥ २२९ ॥ प्रत्येकाः साधारणाश्च द्विप्रकारा महीरुहः। तेऽत्रं पूर्वे बादराः स्युरुत्तरे सूक्ष्म-बादराः ॥२३०॥ त्रसा द्वित्रिचतुःपञ्चेन्द्रियत्वेन चतुर्विधाः । तत्र पश्चेन्द्रिया द्वेधा संज्ञिनोऽसंज्ञिनोऽपि च ॥ २३१ ॥ शिक्षोपदेशालापान ये जानते तेऽत्र संजिनः । संप्रवृत्तमनःप्राणास्तेभ्योऽन्ये स्युरसंझिनः ॥ २३२॥ स्पर्शनं रसनं घ्राणं चक्षुः श्रोत्रमितीन्द्रियम । तस्य स्पर्शो रसो गन्धो रूपं शब्दश्च गोचरः ॥ २३३॥
। अतस्वज्ञः। २ स्थावराः असावेति । ३ इन्द्रियाणि । ४ एकेन्द्रियाणां चतस्रः, विकलेन्द्रियाणां पत्र, पञ्चेन्द्रियाणां षद पर्यासयः शमशः। 'हा तत्र तुसंवृ० का०॥५प्रत्येका बादरा एव । साधारणाः। . प्रवृत्तिमम्तो मना-प्राणापाते। विक्षः।
Jain Education in
For Private & Personal use only
www.jainelibrary.org.