Book Title: Trishashti Shalaka Purush Charita Mahakavyam_02
Author(s): Hemchandracharya, Charanvijay
Publisher: Atmanand Jain Sabha
View full book text ________________
चतुर्थ पर्व
त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये
चतुर्थः सर्गः
श्रीअनन्तनाथजिनचरितम्।
(४१२॥
को नाम मे बलोत्कर्षस्त्वयि बाले निबर्हिते । किं रम्भोन्मूलने स्थामवर्णनं वरदन्तिनः ॥ १७८॥ एषोऽपि सुभटम्मन्यस्तव ज्यायान् ममाग्रतः । लघीयान् कुञ्जर इव महानपि गिरेः पुरः ॥ १७९॥ व्याजहार प्रतिहरिं हरिरप्युल्लसस्मितः । तमांसि हन्ति प्रौढानि बालोऽपि हि दिवाकरः ॥१८०॥ अग्निः स्फुलिङ्गमात्रोऽपि कक्षं दहति सर्वतः । तेजः प्रमाणं वीराणां तेजसां कीदृशं वयः॥१८१॥
॥युग्मम् ॥ तदलं ते विलम्बेन मुश्च चक्रमशङ्कितः । व्यालोऽपि गैरलं मुक्त्वा शाम्येन पुनरन्यथा ॥ १८२ ॥ अङ्गुल्यामूर्मिकीकृत्य सलीलं मधुरप्यथ । भ्रमयामास तच्चक्रमेलातमिव बालकः ॥ १८३॥ मुमोच च मधुश्चक्रं तत् पपाताथ शाङ्गिणः । वक्षस्तुम्बाग्रघातेन चुम्बदुल्बणतेजसा ॥ १८४ ॥ विष्णुस्तेन प्रहारेण मृञ्छितः स्यन्दनेऽपतत् । उत्प्लत्य बलभद्रेण स्वोत्सङ्गे च न्यधीयत ॥ १८५ ॥ भ्रात्रङ्गसंगादमृतस्नपनादिव केशवः । अवाप्तसंज्ञस्तच्चक्रं मधोः प्राणानिवाददे ॥ १८६ ॥ अथ शार्ङ्गधरोऽप्येवमूचे मद्वत् त्वमत्र भोः।मा स स्था गच्छ गच्छाशु स्पर्धा सिंहेन का शुनः॥१८७।। मधुरप्यभ्यधत्तैवं मुश्च चक्रं त्वमप्यहो! । गर्जन् शरन्मेघ इव किमात्मानं विकत्थसे ॥ १८८॥ एवमुक्तवतस्तस्य चक्र मुक्त्वा जनार्दनः । अपातयच्छिरो भूमौ फलं तालतरोरिव ॥ १८९ ॥ पुष्पवर्षेः सुरैः शाङ्गी साधु साध्विति तुष्टुवे । हा नाथ ! नाथ! वासीति निजैस्तु शुशुचे मधुः॥१९०॥ जन्ने केशवसेनान्या कैटभोऽपि महाभटः । शिश्रिये चापरैः सद्यः श्रीपतिर्मधुपार्थिवेः ॥ १९१ ॥ १ नाशिते । २ रम्भा-कदली । ३ तृणम् । ४ विषम् । ५ उल्काम् । * उत्पत्य संबृ०॥ ६ प्रगल्भसे ।
॥४१२॥
Jain Education in
For Private & Personal use only
www.jainelibrary.org
Loading... Page Navigation 1 ... 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574