SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ चतुर्थ पर्व त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये चतुर्थः सर्गः श्रीअनन्तनाथजिनचरितम्। (४१२॥ को नाम मे बलोत्कर्षस्त्वयि बाले निबर्हिते । किं रम्भोन्मूलने स्थामवर्णनं वरदन्तिनः ॥ १७८॥ एषोऽपि सुभटम्मन्यस्तव ज्यायान् ममाग्रतः । लघीयान् कुञ्जर इव महानपि गिरेः पुरः ॥ १७९॥ व्याजहार प्रतिहरिं हरिरप्युल्लसस्मितः । तमांसि हन्ति प्रौढानि बालोऽपि हि दिवाकरः ॥१८०॥ अग्निः स्फुलिङ्गमात्रोऽपि कक्षं दहति सर्वतः । तेजः प्रमाणं वीराणां तेजसां कीदृशं वयः॥१८१॥ ॥युग्मम् ॥ तदलं ते विलम्बेन मुश्च चक्रमशङ्कितः । व्यालोऽपि गैरलं मुक्त्वा शाम्येन पुनरन्यथा ॥ १८२ ॥ अङ्गुल्यामूर्मिकीकृत्य सलीलं मधुरप्यथ । भ्रमयामास तच्चक्रमेलातमिव बालकः ॥ १८३॥ मुमोच च मधुश्चक्रं तत् पपाताथ शाङ्गिणः । वक्षस्तुम्बाग्रघातेन चुम्बदुल्बणतेजसा ॥ १८४ ॥ विष्णुस्तेन प्रहारेण मृञ्छितः स्यन्दनेऽपतत् । उत्प्लत्य बलभद्रेण स्वोत्सङ्गे च न्यधीयत ॥ १८५ ॥ भ्रात्रङ्गसंगादमृतस्नपनादिव केशवः । अवाप्तसंज्ञस्तच्चक्रं मधोः प्राणानिवाददे ॥ १८६ ॥ अथ शार्ङ्गधरोऽप्येवमूचे मद्वत् त्वमत्र भोः।मा स स्था गच्छ गच्छाशु स्पर्धा सिंहेन का शुनः॥१८७।। मधुरप्यभ्यधत्तैवं मुश्च चक्रं त्वमप्यहो! । गर्जन् शरन्मेघ इव किमात्मानं विकत्थसे ॥ १८८॥ एवमुक्तवतस्तस्य चक्र मुक्त्वा जनार्दनः । अपातयच्छिरो भूमौ फलं तालतरोरिव ॥ १८९ ॥ पुष्पवर्षेः सुरैः शाङ्गी साधु साध्विति तुष्टुवे । हा नाथ ! नाथ! वासीति निजैस्तु शुशुचे मधुः॥१९०॥ जन्ने केशवसेनान्या कैटभोऽपि महाभटः । शिश्रिये चापरैः सद्यः श्रीपतिर्मधुपार्थिवेः ॥ १९१ ॥ १ नाशिते । २ रम्भा-कदली । ३ तृणम् । ४ विषम् । ५ उल्काम् । * उत्पत्य संबृ०॥ ६ प्रगल्भसे । ॥४१२॥ Jain Education in For Private & Personal use only www.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy