________________
श्रीअनन्तनाथजिनस्य केवलज्ञानं समवसरणं च।
समागधवरदामप्रभासाधीश्वरं ततः । अपाग्भरतवर्षाधं साधयामास शार्ङ्गभृत् ॥ १९२॥ शिलां कोटिनरोत्पाट्यां मगधेष्वथ माधवः। उत्पाव्य लीलयाऽऽनन्दी पिधानमिव सोऽमुचत् ॥१९३॥ समुद्रेणापि दत्तार्य इवोत्कल्लोलपाणिना । अथाययौ द्वारवतीं वपुरी पुरुषोत्तमः ॥ १९४ ॥ तत्र सोमेन रामेण पार्थिवैरपरैरपि । विष्णोश्चक्रेऽर्धचक्रित्वाभिषेकः परया मुदा ॥ १९५॥ इतस्त्रिवर्षी छमस्थो विहृत्याऽनन्तजिज्जिनः । समाययावुपवनं सहस्राम्रवणाभिधम् ॥ १९६॥ तत्राशोकतले भर्तुानान्तरविवर्तिनः । संसारस्येव मर्माणि घातिकर्माणि तुत्रुटुः ॥ १९७॥ राधकृष्णचतुर्दश्यां रेवतीस्थे निशाकरे । षष्ठेन तपसा भर्तुरुदपद्यत केवलम् ।। १९८॥ चक्रे च दिव्ये समवसरणे देशनां प्रभुः । पञ्चाशतं गणधरान् यशःप्रभृतिकानपि ॥ १९९ ॥ तत्तीर्थभृश्च पातालख्यास्यो मकरवाहनः । रक्तो दोभिः पद्मखड्गपाशिभिर्दक्षिणैत्रिभिः ॥२०॥ वामैनकुलफलकाक्षसूत्रसहितैः पुनः । श्रीमतोऽनन्तनाथस्य जज्ञे शासनदेवता ॥ २०१॥ तथोत्पन्नाङ्कशा नाम गौराङ्गी पद्मवाहना । दोर्दण्डाभ्यां दक्षिणाभ्यां खङ्गं पाशं च बिभ्रती ॥२०२॥ दक्षिणेतरबाहुभ्यां दधती फलककाङ्कुशौ । अनन्तस्वामिनो जज्ञे तथा शासनदेवता ।। २०३ ॥ ताभ्यामुपासिताभ्यों भगवान् विहरन् भुवि । प्रापत् पुरी द्वारवती मोक्षद्वारा|गूः प्रभुः ॥२०४॥ शक्रायैस्तत्र समवसरणं विदधेऽमरैः । षट्कार्मुकशतोत्तुङ्गचैत्यपादपभूषितम् ॥ २०५॥ तत्र द्वारेण पूर्वेण प्रविश्यानन्तजिज्जिनः । त्रिः प्रदक्षिणयामास तमुच्चैश्चैत्यपादपम् ।। २०६॥ १ आच्छादनम् । * इति त्रिव संबृ०॥२ त्रिमुखः। ३ अग्रगू-भग्रेसरः ।
Jain Education Intern
i
For Private & Personal use only
Allwww.jainelibrary.org