Book Title: Tattvasangraha Part 01
Author(s): Dwarikadas Shastri
Publisher: Bauddh Bharati

Previous | Next

Page 236
________________ २१० तत्वसंग्रहे समयाभोगादिव्यवहितत्वम् साक्षादनुत्पत्तेः प्रत्यक्षत्वमेषामसिद्धम् । न चापि पारम्पर्येणोत्पद्यमानस्य प्रत्यक्षत्वं न्याय्यम्; अतिप्रसङ्गादिति भावः ॥ ७२६-७२८॥ - [G.241] इतश्च स्मार्त्तत्वात् तदन्यस्मृतिवत् प्रत्यक्षत्वमयुक्तं सदादिप्रत्ययस्येति दर्शयन्नाह ___ अजल्पाकारमेवादौ विज्ञानं तु प्रजायते। . ततस्तु समयाभोगस्तस्मात् स्मार्तं ततोऽपि ते॥७२९॥ स्वलक्षणे सङ्केतस्याकरणाद् दृष्ट्वा च विकल्पनात् प्रथमतरं वस्तुस्वलक्षणविषयतयाऽभिलापसंसर्गविवेकि विज्ञानमक्षाश्रितमुपजायते। ततः पश्चात् तस्मिन्नेव परिदृष्टे वस्तुनि समयाभोगः तदनन्तरं यथासमयं परिदृष्टार्थविषयास्तदध्यवसायितया' सदादिप्रत्ययास्तमेवार्थ परिदृष्टमभिलपन्तः समुत्पद्यमानाः कथमिव स्मार्त्ततां नासादयेयुः ! ततोऽपीति । यथा परिदृष्टाध्यवसायात् । त इति सदादिप्रत्ययाः ॥ ७२९॥ कुतः पुनरयमुत्पत्तिक्रमो विज्ञानानामालक्षितः? इत्याह-: अन्यत्रगतचित्तस्य वस्तुमात्रोपलम्भनम्। .. सर्वोपाधिविवेकेन तत एव प्रवर्त्तते॥७३०॥ यतस्ते सदादिप्रत्यया अमुना क्रमेणोपजायन्ते, तत एवान्यत्र विषयान्तरे गतचित्तस्य= व्यासक्तमनसः पुरोऽवस्थितं वस्तु पश्यतः सम्मुखीभूतवस्तुसङ्केतमनस्काराद्यप्रवृत्तेः प्रथमतरं सर्वोपाधिविविक्तवस्तुमात्रदर्शनं प्रवर्तते । अन्यथा हि यदि सर्वमेव साभिजल्पं विज्ञानं स्यात्, तदा पुरोऽवस्थित वस्तु सर्वोपाधिशून्यमन्यत्रगतमनाः कथमीक्षेत ! न ह्येकस्मिन् काले युगपदभिलापद्वयं संवेद्यते । तदेवं साक्षादक्षगतावन्यव्यतिरेकानुविधायित्वमसिद्धम् ॥७३०॥ तत्र यदुक्तम्- "गवादि" (तत्त्व० ७१६) इत्यादि, तत्राह- . हेतावाद्येऽपि वैफल्यं समयाभोगभाविता। तेषामिष्टैव संसर्गी सोऽन्वयव्यतिरेक़वान्॥७३१॥ यदि सामान्येनानुरूपससर्गि निमित्तान्तरमात्रनिबन्धनत्वमेषां प्रसाध्यते तदा सिद्धिसाध्यता; यतो गवादिसङ्केताभोग एव गवादिप्रत्ययव्यपदेशानामनुरूपसम्बन्धी। तथा हितस्मिन्सति भवन्ति विजातीयमनस्कारे, असति' च न भवन्ति । अतः स एवान्वयव्यतिरेकवान् हेतुरेषां सिद्धः; तद्गतान्वयव्यतिरेकस्यैवानुविधानात्, अतो वैफल्यं हेतुप्रयोगप्रयासस्य ॥७३१ ॥ तस्य पक्षाबहिर्भावे साध्यशून्यं निदर्शनम्। . नैव तद्धेतवः साक्षाद् बाह्यवत्सांकुशादयः॥७३२॥ नाभिधानविकल्पानां वृत्तिरस्ति स्वलक्षणे। सर्वं वाग्गोचरातीतमूर्तिर्येन स्वलक्षणम् ॥७३३॥ [G.242] अथैनं संकेतमनस्कारं पक्ष एवान्तर्भाव्य तद्व्यतिरिक्तनित्यैकानुगामिसामान्याख्यसंसर्गिनिबन्धनत्वमेषां साध्यते, तदा दृष्टान्तस्य साध्यविकलता, न ह्येवम्भूलेन क्वचिदन्वयः सिद्धः । ये चामी वत्साङ्कशादयः सवत्साद्यभिधानप्रज्ञानहेतुत्वेन वर्णिताः, तेऽपि तद्धेतुत्वेन १. तदव्यवसायितया-जै०. पाल। २. परिदृष्टाव्यवसायात्- जै०, पा०। ३. जै०, पा० पुस्तकयो स्ति। ४. नैवं-पा०, गा०।

Loading...

Page Navigation
1 ... 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444