Book Title: Tattvasangraha Part 01
Author(s): Dwarikadas Shastri
Publisher: Bauddh Bharati

Previous | Next

Page 415
________________ प्रमाणान्तरभावपरीक्षा ३८९ यस्तत्र' परिहारस्ते स एवात्र भविष्यति ॥१५८५॥ [G.456) सङ्गतम्-सम्बद्धम्, सद्वितीयमिति यावत्। उपलक्षणमेतत् प्रमेयान्तरसाधनस्यापि बोद्धव्यम्। साध्यविपक्षे हेतोर्बाधकस्याप्रकाशनान्न साध्यसाधनयोः प्रतिबन्ध उपदर्शितःइत्यनैकान्तिकाः सर्व एव हेतवः; सन्दिग्धविपक्षव्यावृत्तिकत्वात्। किञ्च–'प्रत्यक्षानुमानोपमानशाब्दानि चत्वारि प्रमाणानि' इति सङ्ख्यानियमो व्याहन्येत; अनेनैव प्रकारेण प्रमाणान्तरसद्भावात् । तथा हि शक्यमिदमभिधातुम्-प्रत्यक्षमनुमानोपमानशाब्दव्यतिरिक्तप्रमाणान्तरसद्वितीयम्; प्रमाणत्वात्, अनुमानवदिति। यच्चापि प्रमेयत्रैविध्यमिष्टम्-सामान्यम्, विशेषः, सामान्यविशेवानिति, तदपि व्याहन्येत; तेनैव प्रकारेण प्रमेयान्तरसाधनसम्भवात्। योऽत्र भवतः परिहारः सोऽस्माकमपि भविष्यतीत्यलं बहुना ॥ १५८३-१५८५ ॥ इत्युपमानविचारः॥ ३.अंपत्तिविचारः अर्थापत्तिमधिकृत्याह प्रमाणषट्कविज्ञातो यत्रार्थो नान्यथा भवन्। . अदृष्टं कल्पयत्यन्यं साऽर्थापत्तिरुदाहृता ॥१५८६॥ यत्र देशकालादौ प्रत्यक्षानुमानोपमानशाब्दार्थापत्त्यभावलक्षणैः षड्भिः प्रमाणैः परिच्छिन्नोऽर्थोऽन्यथा नोपपद्यते, यद्येवम्भूतोऽर्थो न भवेत् परोक्ष इत्येवं या परोक्षार्थविषया कल्पना साऽर्थापत्तिः प्रमाणम्। उदाहृतेति। शबरस्वामिना। यथोक्तम्-"दृष्टः श्रुतो वार्थोऽन्यथा नोपपद्यत इत्यदृष्टकल्पना। तद्यथा-जीवति देवदत्ते गृहादर्शनेन बहिर्भावकल्पना" (मीद० शा०भा० १.१.५) इति। दृष्टः शाब्दव्यतिरिक्तप्रमाणपञ्चकाधिगतः, श्रुतः=शाब्दप्रमाणावगतः ॥ १५८६॥ तत्र षट्प्रमाणपूर्विकाया अर्थापत्तेर्यथाक्रममुदाहरणान्याह१. तत्र प्रत्यक्षतो ज्ञाताद् दाहाद् दहनशक्तिता। वह्नेरनुमितात् सूर्ये यानात् तच्छक्तियोगिता ॥१५८७॥ . शक्तयः सर्वभावानां कार्यार्थापत्तिसाधनाः। अपूर्वास्ताश्च गम्यन्ते सम्बन्धग्रहणादृते ॥१५८८॥ [G.457) तत्र प्रत्यक्षपूर्विकाऽर्थापत्तिर्यथा-प्रत्यक्षेण दाहमनुभूय वढेर्दाहशक्तिकल्पना। अनुमानपूर्विका यथा-देशान्तराप्त्याऽनुमिताद् गमनात् सूर्यस्य गमनशक्तियोगकल्पना। शक्तयश्च सर्वदा सर्वपदार्थानां कार्यार्थापत्तिसाधना इति । इयमप्यर्थापत्तिः कदाचित् प्रत्यक्षपूर्विकैव, यदा प्रत्यक्षेण कार्यमुपलभ्य कारणस्य शक्तिरवगम्यते । यदा त्वनुमानादिना कार्यमवगम्य कारणशक्तिरवगम्यते, तदाऽनुमानादिपूर्विका भवति कार्यार्थापत्तिः। कार्यस्यान्यथाऽनु २. पा०, गा० पुस्तकयो स्ति। १. यत्तत्र-पा०, गा०॥

Loading...

Page Navigation
1 ... 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444