Book Title: Tattvasangraha Part 01
Author(s): Dwarikadas Shastri
Publisher: Bauddh Bharati

Previous | Next

Page 432
________________ तत्त्वसंग्रहे प्रत्यक्षेऽन्तर्गतो भावस्तथा सति कथं न ते ॥ १६६९ ॥ किञ्च–यदि वस्तुत्वमभावस्याभ्युपम्यते, तदा यथा प्रमाणाभावो वस्तु तथा प्रमेयाभावोऽपीति, ततश्चाभावो वस्तुत्वात् प्रत्यक्ष एव किमिति नाभ्युपगम्यते, येन तदधिगतयेऽन्यत् प्रमाणान्तरमभावाख्यं परिकल्प्येत ॥ १६६६ - १६६९॥ कार्यादीनामित्यादिना प्रत्यक्षान्तर्गतत्वमेव समर्थयते कार्यादीनामभावो हि भावो यः कारणादिना । स चापरविविक्तात्मा प्रत्यक्षेणैव गम्यते ॥ १६७० ॥ तथा चोक्तम्– “कार्यादीनामभावः को' यो भावः कारणादिना " ( तत्त्व० १६७०) इति । स च कारणादेर्भावोऽपरविक्तात्मा=कार्यादिविविक्तस्वभावः, प्रत्यक्ष एवेति किमभावस्यापरं प्रमेयमस्ति येन प्रमाणान्तरं स्यात् । प्रयोगः - यस्य यतो व्यतिरिक्तं प्रमेयं नास्ति तत्ततो न प्रमाणान्तरम्, यथा सप्तमं प्रमाणम् । नास्ति च प्रमेयं प्रत्यक्षप्रमेयाद् व्यतिरिक्तमभावस्येति व्यापकानुपलब्धिः ॥ १६७० ॥ अत्र परो हेत्वसिद्धिमुद्भावयन्नाहस्वरूपपररूपाभ्यां नित्यं ४०६ सदसदात्मके । वस्तुनि ज्ञायते किञ्चिद् रूपं. कैश्चित् कदाचन ॥ १६७१ ॥ [G.477] स्यात् प्रमेयाभावो यद्येकात्मकमेव वस्तु स्यात्; यांवता स्वरूपपररूपाभ्यां यथाक्रमं सदसदात्मत्वेनोभयात्मकं वस्तु, तस्मिन्नुभयात्मके वस्तुनि स्थिते किञ्चिद्रूपम् = स्वभावः, कैश्चित् प्रमाणैर्ज्ञायते, न सर्वं सर्वैः । एतदेव दर्शयति प्रत्यक्षाद्यवतारश्च भावांशी गृह्यते यदा । व्यापारस्तदनुत्पत्तेरभावांशे जिघृक्षिते ॥ १६७२ ॥ भावांशो यदा गृह्यते तदा प्रत्यक्षादीनां प्रपञ्चानां व्यापारः, नाभावस्य । अभावांशे ग्रहीतुमिष्टे, तदनुत्पत्तेर्व्यापारः; तेषाम् प्रत्यक्षादीनामनुत्पत्तेरभावस्येति यावत् ॥ १६७१-१६७२ ।। स्यादसिद्धता हेतोर्यद्येकस्योभयात्मकत्वं स्यात्, यावता विरुद्धमेकस्योभयात्मत्वम्इति प्रतिपादयन्नाह - स्वरूपमेव वस्तूनां ननु व्यावृत्तमन्यतः ' । तेनात्मना सदेतच्च प्रत्यक्षमुनाऽत्मना ॥ १६७३ ॥ न हि पररूपेण वस्तु वस्त्वन्तराद् व्यावृत्तम्, किं तर्हि ? स्वरूपेण । अतश्च स्वरूपमेव= स्वभाव एव वस्तूनां वस्त्वन्तराद् व्यावृत्तमुपलभ्यते; स्वस्वभावावस्थानात् । येन चात्मना व्यावृत्तं तेन तद्वस्तु सदेव, नासत् । एतच्च वस्तु प्रत्यक्षममुनान्यव्यावृत्तेनात्मनेति न द्वितीयरूपोलब्धिः ॥ १६७३ ॥ एवं तावत् प्रत्यक्षविरुद्धमुभयात्मकत्वप्रतिज्ञानमुद्भावितम्, इदानीमनुमानविरुद्धं प्रतिपादयन्नाह ९. कारणादि न.- जै ३ . मिष्यते- पार. गा। २. पा., गा० पुस्तकयोर्नास्ति ।

Loading...

Page Navigation
1 ... 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444