Book Title: Tattvasangraha Part 01
Author(s): Dwarikadas Shastri
Publisher: Bauddh Bharati

Previous | Next

Page 435
________________ ४०९ प्रमाणान्तरभावपरीक्षा अथ परतो बुद्धिसंसिद्धौ कः प्रद्वेषः? इत्याह बुद्धेस्तु-परत: सिद्धिर्लिङ्गाद् बुद्ध्यन्तरादपि। __ अन्यथानुपपत्तेर्वा सर्वथापि न सम्भवः॥१६८३॥ [G.480] केचिल्लिङ्गसमधिगम्यां बुद्धिमिच्छन्ति । तच्च लिङ्गमर्थज्ञानं वा क्रियारूपम्, इन्द्रियार्थो वा, व्यक्तो वा विषय इत्यादिकम्। केचिद् बुद्ध्यन्तरप्रत्यक्षां बुद्धिमिच्छन्ति, न स्वसंविद्रूपाम्; स्वात्मनि 'कारित्वविरोधात् । केचिज्ज्ञातार्थान्यथानुपपत्त्या ज्ञातोऽर्थो न सिध्यति यदि बुद्धिर्न भवेत्, तस्य स्वयं जडरूपत्वात् । अतः पक्षत्रयमुक्तम् ॥ १६८३॥ त्रयपर्यनुयोगस्य प्रत्येकं सति सम्भवे। अनवस्थितयो बढ्यो विसर्पिण्यः स्युरत्र ते॥१६८४॥ तस्य लिङ्गादित्रयस्य यः प्रत्येकं पर्यनुयोगः, तस्यापि लिङ्गादेः कुतः सिद्धिरिति तस्य सम्भवे सति बह्वयोऽनवस्थितयः प्रसर्पन्ति। तथा हि-तदपि लिङ्गादित्रयं बुद्धरसिद्धावसिद्धमिति तस्यापि परत: सिद्धिरन्वेष्टव्या, तत्राप्यपरलिङ्गादिसमाश्रयणे सर्वत्र पर्यनुयोगे चानवस्थाप्रसङ्गः। तस्मादेकस्योपलम्भादन्येषामसत्त्वं प्रतीयते, तद्देशकालस्य निषेधे कर्तव्ये तुल्ययोग्यात्मनामेव निषेधः कार्यः; अन्येषां तत्र निषेद्धमशक्यत्वात्। तादात्म्यनिषेधे तु सर्वस्यैव निषेधः कार्यो दृष्टः; तदन्यत्वेन सर्वस्य व्यवस्थापनात्, "न तदात्मा परात्मा" (तत्त्व० ११९२) इति कृत्वा ॥१६८४॥ .. तुल्ययोग्यात्मनस्तस्मादेकस्यैवोपलम्भनात्। . असन्निश्चययोग्यत्वमन्येषां . सम्प्रतीयते॥१६८५॥ - एकस्य कस्य संवित्तावचन्द्रं गम्यते नभः। ... सर्वशब्दविवेकश्च कंचिनिश्चीयते कथम् ॥१६८६॥ ननु चाकाशे चन्द्राभावं यदाऽध्यवस्यति तदा नैकस्य तत्रोपलम्भः, येनोच्यतेएकोपलम्भादन्याभावसिद्धिरिति। न ह्याकाशं नाम किञ्चित् परमार्थतोऽस्ति, यच्चन्द्रविविक्तं दृश्येत । यदपि परैर्वस्तु सत्कल्पितम्, तदप्यतीन्द्रियम्, यश्च क्वचित् प्रदेशे शब्दाभावनिश्चयः, स कस्योपलम्भात्? न तावद् भूभागोपलम्भादिति वक्तव्यम: तस्य शब्देनातुल्ययोग्यावस्थत्वात्। तथा हि-भूभागश्चाक्षुषः, शब्दस्तु श्रावणः, तुल्ययोग्यावस्थयोश्च परस्परापेक्षमन्यत्वमिष्टम्; एकज्ञानसंसर्गिण: रेपरस्परापेक्षमन्यत्वमिति वचनात् । नापि कालस्योपलम्भादिति वाच्यम्, न हि पदार्थव्यतिरिक्त: कालोऽस्ति यस्योपलम्भः स्यात्। योऽपि परिष्टः५, “सोऽप्यतीन्द्रियः ॥ १६८५-१६८६॥ प्रकाशेत्यादिना प्रतिविधत्ते- प्रकाशतमसो राशेस्तमेव व्योम मन्यते। प्रतिपत्ता यतोऽन्यस्य न सत्त्वं न च दर्शनम्॥१६८७॥ १-१. बुद्धेरपरत:- पा०, गा०॥ २. कर्मत्वविरो०-गा। ३-३. संसर्गिणोऽपरस्परा-पा०, 'गा। ४. परार्थ-पा०, गा०॥ ५-५. परैरिष्टांशस्सो-पा०; गा०।

Loading...

Page Navigation
1 ... 433 434 435 436 437 438 439 440 441 442 443 444