Book Title: Tattvasangraha Part 01
Author(s): Dwarikadas Shastri
Publisher: Bauddh Bharati
________________
प्रमाणान्तरभावपरीक्षा
गेहाभावस्तु यः शुद्धौ विद्यमानत्ववर्जितः ।
स मृतेष्वपि दृष्टत्वाद् बहिर्वृत्तेर्न साधकः ॥ १६०५ ॥
३९३
विद्यमानर्त्येति । जीवत्ता ॥ १६०५ ॥
एवं षट्प्रकाराऽर्थापत्तिः । तत्र चतसृभिः शक्तिः प्रमेया, एकया शब्दनित्यता, अपरया बहिर्व्यवस्थितं द्रव्यम्। तत्रेत्यादिना दूषणमाह
तत्र शक्तातिरेकेण न शक्तिर्नाम काचन ।
याऽर्थापत्त्याऽवगम्येत शक्तश्चाध्यक्ष एव हि ॥ १६०६ ॥
अत्र लक्षणं तावदयुक्तम् । तथा हि- तेनादृष्टेन विना दृष्टश्रुतादिकोऽर्थो नोपपद्यत इत्यदृष्टकल्पना । तत्रेदं निरूप्यते किं तेनादृष्टेन सह क्वचिद् दृष्टश्रुतस्यार्थस्य सम्बन्धो दृष्टः ? अथ न ? यदि तु' दृष्टः, अनुमानत्वप्रसङ्गः; सम्बन्धदर्शनोपायत्वात् । अथ न संसिद्धः, एवं तर्हि वह्नेर्दाहकत्वाददाहकत्वमपि कल्पनीयम्; अदृष्टसम्बन्धत्वेनाविशेषात् ।
अथ मतम् - अदाहकत्वेन सह वह्नेरदृष्टत्वान्नादाहकत्वं कल्प्यत इति ? एवं तर्हि दाहकत्वमपि न कल्पनीयम्; तेनापि सह क्वचिददृष्टत्वात् । तस्मात् सम्बन्धे सिद्धे सति सम्बन्धिनमविनाभाविनं दृष्ट्वा द्वितीयस्य सम्बन्धिनः कल्पना युक्ता । एवं च कल्प्यमाने सम्बन्धदर्शनोपायत्वादनुमान एवान्तर्भावः स्यात् । उदाहरणान्यप्ययुक्तानि ।
तत्र तावत् प्रत्यक्षादिप्रसिद्धस्यार्थस्य चतसृभिरर्थापत्तिभिः शक्तिः प्रतीयत इत्यत्र साधारणं दूषणमाह-तत्र शक्तातिरेकेणेत्यादि ।
यतः शक्तिन्या न वस्तुनः सकाशात्, स च शक्तः पदार्थः प्रत्यक्ष एवेति गृहीतग्रहणादेव न प्रमाणम् । अध्यक्षग्रहणमुपलक्षणम् ॥ १६०६ ॥
दाहादीनामित्यादिना प्रत्यक्षपूर्विकाया अर्थापत्तेरुदाहरणस्य विशेषेण दूषणमाहदाहादीनां तु यो हेतुः पावकादिः समीक्ष्यते । असंशयाविपर्यासं शक्तिः काऽन्या भवेत् ततः ॥ १६०७॥ व्यतिरिक्ते तु कार्येषु तस्या एवोपयोगतः । भावोऽकारण एवं स्यादुपयोगे न भेदिनी ॥ १६०८ ॥ अर्थक्रियासमर्थं हि स्वरूपं शक्तिलक्षणम् ।
एवमात्मा च भावोऽयं प्रत्यक्षाद् व्यवसीयते ॥ १६०९ ॥ असंशयांविपर्यासमिति । क्रियाविशेषणममेतत् । अथ व्यतिरिक्ता शक्तिरभ्युपगम्यते ? तदा कार्येषु शक्तेरेवोपयोगाद् भावस्याकारकत्वं प्राप्नोति, ततश्चावस्तुत्व प्रसङ्गः; [G.462] अर्थक्रियाकारित्वलक्षणत्वाद् वस्तुत्वस्य । अथ मा भूदवस्तुत्वप्रसङ्ग इत्युपयोगोऽङ्गीक्रियते ? तदा तस्मिन्नुपयोगेऽङ्गीक्रियमाणे न तर्हि सा शक्तिर्भेदिनी = भिन्ना । कस्मात् ? येनार्थक्रियासमर्थं यद्रूपम् = स्वभाव:, सैव शक्तिः, नान्यदपरं शक्तिलक्षणम् । यस्तु भावस्य शक्तिरिति व्यतिरेकिवद् व्यपदेशः, स भेदान्तरप्रतिक्षेपेण तन्मात्रजिज्ञासायां भाव एव तथोच्यते ॥ १६०७-१६०९ ॥ स्यादेतत्, नार्थक्रियाकारित्वं शक्तेर्लक्षणम्, किं तर्हि ? अन्यदेवेत्याह
१. न जै० ।
Page Navigation
1 ... 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444