Book Title: Tattvasangraha Part 01
Author(s): Dwarikadas Shastri
Publisher: Bauddh Bharati
________________
३९४
तत्त्वसंग्रहे अन्यलक्षणसंसिद्धौ प्रमाणं न च किञ्चन।
ज्ञातेनापि न तेनार्थो रूपात् तत्कार्यसिद्धितः ॥१६१०॥ अन्यस्य शक्तिलक्षणस्य संसिद्धौ न किञ्चित् प्रमाणमस्ति यत्प्रमाणमभावात् सर्वसामर्थ्यविरहलक्षणादेनां शक्तिं विशेषयेत् । न च तेन तथाभूतेनार्थक्रियार्थिनां ज्ञातेन किञ्चित् प्रयोजनमस्ति । रूपात्=उपयोगिनो भावस्य स्वभावादेव, अर्थक्रियासिद्धेः । यथोक्तम्
"अर्थक्रियाऽसमर्थस्य विचारैः किं तदर्थिनाम् । शण्ढस्य रूपे वैरूप्ये कामिन्याः किं परीक्षया"।
(प्र० वा० ३. २१०-२११) इति ॥ १६१० ॥ कार्यार्थापत्तिगम्यं चेदपरं शक्तिलक्षणंम्। ...
न कार्यस्यान्यथाभावाद् भवत्येतद्धि भावतः॥१६११॥ स्यादेतत्, अस्त्येवान्यच्छन्तेर्लक्षणम्-यदुत नित्यं कार्यान्यथानुपपत्त्या यद् गम्यं रूपं सा शक्तिरिति, कार्यानुमेयत्वं शक्तेर्लक्षणम्? नैतद्युक्तं शक्तिलक्षणम्। कस्मात् ? कार्यस्यान्यथाभावात्। अन्यथापि व्यतिरिक्तशक्तिमन्तरेण, कार्यस्योपपत्तेः । कथम्? इत्याहभवत्येतद्धि भावतइति । एतत्कार्यं यस्मात् भावात् पदार्थात्, भवति-उत्पद्यते, तस्मादन्यथापि कार्यस्यास्तित्वसम्भव इति किं व्यतिरिक्तया शक्त्या कल्पितया!॥ १६११॥ .. एनमेवार्थं स्पष्टीकुर्वनाह- .
जलादिव्यतिरिक्तो हि सामर्थ्येन प्रयोजनम्। दाहादौ तत् किमन्येन सामर्थ्येन प्रयोजनम् ॥१६१२॥ नैकान्तेन विभिन्ना चेच्छक्तिः साऽप्युभयात्मिका।
न, विरोधाद्भवेत् सा च प्रत्यक्षाऽनन्यतापि यत् ॥१६१३॥ स्यादेतत्, भवत्येष दोषो यद्यस्माभिरेकान्तेन पदार्थाच्छक्तिर्भिन्नाऽभ्युपगम्येत, [G.463] किं तर्हि ? भिन्नाभिन्नत्वेनोभयात्मिकेत्येतच्च न युक्तम्; कस्मात्? इत्याहविरोधादिति। यदि व्यतिरिक्ता, कथमव्यतिरिक्ता तदैव! अथाव्यतिरिक्ता, कथं व्यतिरिक्तेति व्याहतमेतद्यदन्योन्यपरिहारस्थितलक्षणयोधर्मयोरेकस्मिन् धर्मिणि युगपदुपलयनम् । इदमेव खल्वन्यत्वं यत् तन्न भवत्यात्मान्तरवदित्यावेदितमेवैतत्। भवतु नामोभयात्मत्वं शक्तेः, तथापि सा शक्तिरुभयात्मिका प्रत्येक्षैव, यस्मादनन्यताऽपि शक्तेः पदार्थाद् दृष्टा, नैकानन्तेनान्यत्वमेव, येनाप्रत्यक्षता भवेत्। ततश्च नित्यं कार्यगम्यत्वं शक्तरित्येतद् व्याहन्येत ॥ १६१३ ।।
प्रत्यक्षत्वे स्थिते चास्यामनुमेयत्ववारणम्।
क्षतये नैव येनास्मिन् विषये नानुमेष्यते ॥१६१४॥ अपि च "यदुक्तम्-"शक्तयः सर्वभावानां कायार्थापत्तिसाधना:" (तत्त्व० १५८८) इत्यादि यदेतदनुमेयत्ववारणं शक्तेः कृतम्, तन्न क्षतयेऽस्माकं सम्बन्ध्यते । कस्मात् ? १.तदर्थनाम्-पा, गा०।
२-२. रूपवैरूप्ये-पा०, गा| ३. एतदेवा-पा०, गा०।
४. तत्तस्य-जै०। ५..पा०, गा० पुस्तकयो स्ति।
६. पा० गा० पुस्तकयोनास्ति।
Page Navigation
1 ... 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444