________________
प्रमाणान्तरभावपरीक्षा
३८९
यस्तत्र' परिहारस्ते स एवात्र भविष्यति ॥१५८५॥ [G.456) सङ्गतम्-सम्बद्धम्, सद्वितीयमिति यावत्। उपलक्षणमेतत् प्रमेयान्तरसाधनस्यापि बोद्धव्यम्। साध्यविपक्षे हेतोर्बाधकस्याप्रकाशनान्न साध्यसाधनयोः प्रतिबन्ध उपदर्शितःइत्यनैकान्तिकाः सर्व एव हेतवः; सन्दिग्धविपक्षव्यावृत्तिकत्वात्। किञ्च–'प्रत्यक्षानुमानोपमानशाब्दानि चत्वारि प्रमाणानि' इति सङ्ख्यानियमो व्याहन्येत; अनेनैव प्रकारेण प्रमाणान्तरसद्भावात् । तथा हि शक्यमिदमभिधातुम्-प्रत्यक्षमनुमानोपमानशाब्दव्यतिरिक्तप्रमाणान्तरसद्वितीयम्; प्रमाणत्वात्, अनुमानवदिति। यच्चापि प्रमेयत्रैविध्यमिष्टम्-सामान्यम्, विशेषः, सामान्यविशेवानिति, तदपि व्याहन्येत; तेनैव प्रकारेण प्रमेयान्तरसाधनसम्भवात्। योऽत्र भवतः परिहारः सोऽस्माकमपि भविष्यतीत्यलं बहुना ॥ १५८३-१५८५ ॥
इत्युपमानविचारः॥
३.अंपत्तिविचारः अर्थापत्तिमधिकृत्याह
प्रमाणषट्कविज्ञातो यत्रार्थो नान्यथा भवन्। . अदृष्टं कल्पयत्यन्यं साऽर्थापत्तिरुदाहृता ॥१५८६॥
यत्र देशकालादौ प्रत्यक्षानुमानोपमानशाब्दार्थापत्त्यभावलक्षणैः षड्भिः प्रमाणैः परिच्छिन्नोऽर्थोऽन्यथा नोपपद्यते, यद्येवम्भूतोऽर्थो न भवेत् परोक्ष इत्येवं या परोक्षार्थविषया कल्पना साऽर्थापत्तिः प्रमाणम्। उदाहृतेति। शबरस्वामिना। यथोक्तम्-"दृष्टः श्रुतो वार्थोऽन्यथा नोपपद्यत इत्यदृष्टकल्पना। तद्यथा-जीवति देवदत्ते गृहादर्शनेन बहिर्भावकल्पना" (मीद० शा०भा० १.१.५) इति। दृष्टः शाब्दव्यतिरिक्तप्रमाणपञ्चकाधिगतः, श्रुतः=शाब्दप्रमाणावगतः ॥ १५८६॥ तत्र षट्प्रमाणपूर्विकाया अर्थापत्तेर्यथाक्रममुदाहरणान्याह१. तत्र प्रत्यक्षतो ज्ञाताद् दाहाद् दहनशक्तिता।
वह्नेरनुमितात् सूर्ये यानात् तच्छक्तियोगिता ॥१५८७॥ . शक्तयः सर्वभावानां कार्यार्थापत्तिसाधनाः।
अपूर्वास्ताश्च गम्यन्ते सम्बन्धग्रहणादृते ॥१५८८॥ [G.457) तत्र प्रत्यक्षपूर्विकाऽर्थापत्तिर्यथा-प्रत्यक्षेण दाहमनुभूय वढेर्दाहशक्तिकल्पना। अनुमानपूर्विका यथा-देशान्तराप्त्याऽनुमिताद् गमनात् सूर्यस्य गमनशक्तियोगकल्पना। शक्तयश्च सर्वदा सर्वपदार्थानां कार्यार्थापत्तिसाधना इति । इयमप्यर्थापत्तिः कदाचित् प्रत्यक्षपूर्विकैव, यदा प्रत्यक्षेण कार्यमुपलभ्य कारणस्य शक्तिरवगम्यते । यदा त्वनुमानादिना कार्यमवगम्य कारणशक्तिरवगम्यते, तदाऽनुमानादिपूर्विका भवति कार्यार्थापत्तिः। कार्यस्यान्यथाऽनु
२. पा०, गा० पुस्तकयो स्ति।
१. यत्तत्र-पा०, गा०॥