________________
३९०
।
तत्त्वसंग्रहे पपत्तिः साधनम्=प्रमाणं यासांतास्तथोक्ताः । न च कारणशक्तिः पूवमेव गृहीता-इति शक्यं वक्तुम्; यस्मादपूर्वास्ताश्च शक्तयो गम्यन्ते सर्वदैव । तेनाधिगतार्थाधिगन्तृत्वं नास्तीति भवत्येव प्रामाण्यम्। तत्रैतत् स्यात्-कार्येण लिङ्गेनानुमेयाः शक्तयः, नार्थापत्तिप्रमाणगम्याः? इत्याहसम्बन्धग्रहणादृतइति । यस्मात् सम्बन्धग्रहणमन्तरेण गम्यन्ते तस्मान्नानुमेयाः ॥१५८७-१५८८॥ तमेव सम्बन्धग्रहणाभावं प्रतिपादयन्नाह२. न चासां पूर्वसम्बन्धो न वाऽन्यो गृह्यतेऽधुना।
कार्यैः सह यतः स्यातां पक्षधर्मान्वयाविह ॥१५८९॥ न चासां शक्तीनामनुमानकालात् पूर्वं कार्यैः सह सम्बन्धो गृहीतः, यथा वह्निधूमयोर्महानसादौ; तासामतीन्द्रियत्वात् । अनेनान्वयाभाव उक्तः। नाप्यधुनाऽनुमानकाले गृह्यते सम्बन्धः, अतीन्द्रियत्वादेव। अनेन पक्षधर्माभावः उक्तः। न हि कारणाधारशक्तीनां कार्य धर्मः; अयुक्तेः ॥ १५८९॥
श्रोत्रादिशक्तिपक्षे वा यावान् हेतुः प्रयुज्यते। ..
सर्वोऽसावाश्रयासिद्धो धर्म्यसिद्धेः प्रसज्यते ॥ १५९० ॥ किञ्च-यदा श्रोत्रादिगताः शक्तयः पक्षीक्रियन्ते, तदा श्रोत्रादिशक्तिपक्षे यावान् हेतुः प्रयुज्यते शक्तिसाधनाय, सर्वोऽसौ हेतुराश्रयासिद्धः स्यात्; आश्रयभूतानां शक्तीनामसिद्धत्वात् । तस्मात् कार्यार्थापत्तिसाधनाः सर्वाः शक्तयो नानुमेयाः ॥ १५९० ॥
३. पीनो दिवा न भुंक्ते चेत्येवमादिवचः श्रुतौ।
रात्रिभोजनविज्ञानं श्रुतार्थापत्तिरुच्यते ॥१५९१॥ [G.458] तत्र शाब्दप्रमाणपूर्विकार्थापत्तिर्यथा-'पीनो देवदत्तोऽकृतरसायनो दिवा न भुङ्क्ते' इत्येवमादिवचनश्रवणाद् 'अर्वाग्रात्रौ भुक्ते' इत्येवमाद्यर्थकल्पना ॥ १५९१ ॥
स्यान्मतम्-'पीनो' दिवा न भुंक्ते' इत्यस्यैव वाक्यस्यायमर्थः प्रतीयते-रात्रौ भुङ्क्ते इति? अत आह
न रात्र्यादिपदार्थश्च दिवावाक्ये च गम्यते। न दिवादिपदार्थानां संसर्गो रात्रिभोजने ॥१५९२॥ न भेदो येन तद्वाक्यं तस्य स्यात् प्रतिपादकम्। अन्यार्थव्यापृतत्वाच्च न द्वितीयार्थकल्पना॥१५९३॥ तस्माद् वाक्यान्तरेणायं बुद्धिस्थेन प्रतीयते। तेनानागामिकत्वेऽपि यत् तद्वाक्यं प्रतीयते ॥१५९४॥ प्रमाणं तस्य वक्तव्यं प्रत्यक्षादिषु यद् भवेत्। न त्वनुच्चरिते वाक्ये प्रत्यक्षं तावदिष्यते ॥१५९५ ॥ नानुमानं न हीदं हि दृष्टान्तेन सह क्वचित्। . यदि त्वनुपलब्धेऽपि सम्बन्धे लिङ्गतेष्यते ॥१५९६ ॥
तदुच्चारणमात्रेण सर्ववाक्यगतिर्भवेत्। १ पोनो देवदत्तो-पास, गाल।