________________
प्रमाणान्तरभावपरीक्षा
३९१ सम्बन्धरहितत्वेन नान्यतस्तद् विशिष्यते ॥१५९७॥ . द्विविधो हि वाक्यार्थो भवन्' भवेत् यदुत संसर्गः, भेदश्च। तत्र संसर्गः परस्परं पदार्थानामभेदः क्षीरोदकवत्। भेदश्च व्यवच्छेद्यत्यवच्छेदभावेनावस्थानम्। यद्वानियतसाध्यसाधनसम्बन्धः संसर्गः । भेद: विजातीयव्यावृत्तिः । सोऽयं द्विप्रकारोऽपि वाक्यार्थो न सम्भवति। तथा हि-दिवादीनां पदानां येऽर्था दिवादयः, तेषां न संसर्गरूपो रात्रिभोजनार्थः; अत्यन्तविलक्षणत्वात्। नापि भेदरूपः, दिवादिपदानामराज्यादिव्यवच्छेदेनाप्रवृत्तेः।
अथ मतम्–'रात्रौ भुङ्क्ते' इत्ययमपरो द्वितीयोऽर्थो दिवादिवाक्यस्यैव? इत्याहअन्यार्थेत । दिवादिभोजनप्रतिषेध एवोपक्षीणत्वान्न शक्नोत्यपरं तदैव रात्र्यादिभोजनप्रतिपादनं कर्तमिति न द्वितीयार्थकल्पना। तस्माद्वाक्यान्तरस्यायमर्थः-रात्रौ भुङ्क्त इति । बुद्धिस्थेनेत। अशाब्दत्वं दर्शयति-अनागमित्वेऽपीति। अशाब्दत्वेऽपि। यथोक्तनीत्या शाब्दत्वाभावस्य प्रतिपादितत्वात् । यत्तत् 'रात्रौ भुङ्क्ते' इत्येतद् वाक्यं प्रतीयते, तस्य वाक्यस्य ग्राहकं प्रमाणं वक्तव्यम्।[G.459] यत् प्रमाणं प्रत्यक्षादीनामन्यतमद् भवेत्। न च भवति, तस्मात् प्रमाणान्तरमेवेदमिति भावः।
तदेव प्रत्यक्षादीनामन्यतमत्वमस्य निराकुर्वनाह-न त्वित्यादि। तत्रानुच्चारितस्य रात्रिभोजनवाच्यस्य न युक्तम्; प्रत्यक्षत्वमश्रूयमाणत्वात्। नाप्यनुमानत्वम्; सम्बन्धाभावात् । तथा हि-नेदं रात्रिभोजनवाक्यं तेन दिवावाक्येन सह क्वचिद् दृष्टम्, येन सम्बन्धो भवेत्। नाप्यन्यल्लिङ्गमस्ति।
अथापि स्यात्-अनुपलब्धेऽपि सम्बन्धे लिङ्गत्वमस्य भविष्यति? इत्याह-यति । यदि ह्यसिद्धसम्बन्धस्य लिङ्गत्वं भवेत्, तंदा दिवावाक्योच्चारणादशेषवाक्यप्रतिपत्तिर्भवेत्, न रात्रिभोजनवाक्यस्यैव।कस्मात्? यतः सम्बन्धरहितत्वे सत्यन्यतो वाक्याद्रात्रिभोजनवाक्यं विशिष्यते; सम्बन्धाभावात्, सर्वमेव वाक्यमविशिष्टमिति यावत् ॥ १५९२-१५९७ ॥ उपमानपूर्विकामाह४. गवयोपमिता या गौस्तज्ज्ञानग्राह्यशक्तता।
उपमाबलसम्भूतसामर्थ्येन प्रतीयते ॥१५९८ ॥ गवयेनोपमितस्य गोपिण्डस्य येयमुपमानज्ञानेन ग्राह्यशक्तता सा उपमानबलेन यत्सम्भूतं सामर्थ्यमापत्तिस्तेन मीयते ॥ १५९८॥ . अर्थापत्तिपूर्विकामाह५. अभिधा नान्यथा सिध्येदिति वाचकशक्तताम्।
अर्थापत्त्याऽवगम्यैव तदनन्यगतेः पुनः ॥१५९९॥ अर्थापत्त्यन्तरेणैव शब्दनित्यत्वनिश्चयः।
अनित्यो हि न संकेतव्यवहारानुवृत्तिमान् ॥१६००॥ अभिधानम् अभिधा, अर्थप्रतिपादनमिति यावत्। सा शब्दस्य अन्यथा-वाचकशक्त्या विना, न सिध्येदित्येवं बोधकशक्तताम्, अवगम्य-बुध्वा, तदनन्यगते:-तस्या१. पा०, गा० पुस्तकयो स्ति।