________________
३९२
तत्त्वसंग्रहे वाचकशक्तेरन्या गतिर्नास्ति शब्दनित्यत्वमन्तरेणेति, पुनरर्थापत्त्यन्तरेणैव शब्दस्य नित्यत्वनिश्चयः । कथं पुनर्नित्यत्वमन्तरेणाभिधा न सिध्यति? इत्याह-अनित्यो हीत्यादि। तथा हि-सङ्केतकाले दृष्टस्य यदि व्यवहारकालेऽनुवृत्तिर्न भवेत्, तदा संकेतकरणमनर्थकमेव स्यात्; व्यवहारार्थत्वात् तस्य। यश्चानुवर्तते व्यवहारकाले शब्दः, तेन सह पूर्वं सम्बन्धस्यागृहीतत्वात् । अथ वा-तदनन्यगरिति। [G.460] तस्य व्यवहारकालभाविनः शब्दस्य, संकेतकालदृष्टाच्छाब्दादनन्यगतेरव्यतिरेकनिश्चयात्। कथमव्यतिरेकनिश्चयः? इत्याहअनित्यो हीत्यादि ॥ १५९९-१६००॥
अभावपूर्विकामर्थापत्तिमाह६. प्रमाणाभावनिर्णीतचैत्राभावविशेषितात् ।।...
गेहाच्चैत्रबहिर्भावसिद्धिर्या त्विह वर्णिता ॥१६०१॥
तामभावोत्थितामन्यामापत्तिमुदाहरेत् । प्रत्यक्षादेः प्रमाणस्याभावेन निवृत्त्या निर्णीत: निश्चितो यश्चैत्राभावः; तेन विशेषिताद् गेहात्, ‘इह गेहे चैत्रो नास्ति' इत्यतः, चैत्रस्य जीवने सति, या बहिर्भावसिद्धिः= 'बहिश्चैत्रो विद्यते' इत्येवंनिश्चयरूपा, इह=भाष्ये, वर्णिता= शबरस्वामिना, तदन्यासामर्थापत्तीनामुपलक्षणार्थमुदाहतेति यावत्। यथा-जीवति देवदत्ते गृहेऽदर्शनेन बहिर्भावस्यादृष्टकल्पनेति' । इदमभावपूर्विकाया अर्थापत्तेरुदाहरणम्। प्रायेणास्यास्तार्किकैरनुमानत्वमिष्टमिति तन्निराकरणमाह
पक्षधर्माद्यनङ्गत्वाद् भिन्नैषाऽप्यनुमानतः ॥ १६०२॥ बहिर्देशविशिष्टेऽर्थे देशे वा तद्विशेषिते।
प्रमेये यो गृहाभावः पक्षधर्मस्त्वसौ कथम् ॥१६०३।। यतः पक्षधर्मादयोऽस्या नाङ्गं न कारणम्; अतो भिन्नैवैषाऽनुमानात्, प्रत्यक्षवत्। तथा हि-बहिर्देशेन विशिष्टोऽर्थश्चैत्रादिः, चैत्रादिना वा विशिष्टो बहिर्देशः पक्षो भवन् भवेत् । तस्मिन् द्विविधेऽपि प्रमेये सति, गृहे चैत्रादेरर्थस्याभावो थः, स कथं व्यधिकरणः सन् पक्षधर्मो५ भवेत् । नैव भवेदित्यभिप्रायः ॥ १६०१-१६०३॥
अपि च गृहाभावः पक्षधर्मत्वेन कल्प्यमानः कदाचिज्जीवतो देवदत्तस्य यो गृहाभावः स कल्प्येत, सामान्येन वेति पक्षद्वयम्। तत्र प्रथमे पक्षे दोषमाह
जीवतश्च गृहाभावः पक्षधर्मोऽत्र कल्प्यते।
तत्संवित्तिर्बहिर्भावं न चाबुध्वोपजायते ॥१६०४॥ तत्संवित्तिरिति। तस्य जीवतो देवदत्तस्य संवित्तिः निश्चयः, सा देवदत्तस्य बहिर्भावमबुध्वा न जायते । अनेन हेतोरसिद्धताम्, सिद्धौ वा सिद्धसाध्यतामाह॥ १६०४॥
द्वितीयेऽपि पक्षे हेतोरनैकान्तिकत्वम्; मृतेष्वपि देवदत्तादिषु तेषां [G.461] गृहाभावस्य दृष्टत्वादिति दर्शयन्नाह१. तस्याबोधकशक्ते-पा०. गा०। - २. ०स्यादृष्टस्य कल्पनेति-पा०, गा०। ३ ३ पाल गा. पुस्तकयांनास्ति।
४. पा०, गा० पुस्तकयो स्ति।
५. हेतुरित्यर्थः।