SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ ३८८ तत्त्वसंग्रहे तस्माद् घटना प्रमाण्यमुपमानस्य स्याद् ? इत्याह- - पृथगित्यादि । सुगन्धिमधुरादिवदिति । सप्तम्यर्थे वतिः । यथा— यदेतद् वस्त्वनुभूयमानं तन्मधुरं तत्सुगन्धि' [G.455] इत्यादौ विषये गृहीतसंयोजनात्मकं ज्ञानं न प्रमाणम्, तथेदमपि न भवितुमर्हतीत्यर्थः । तत्=तस्मात्, नामयोगसंवित्ति :- संज्ञासम्बन्धज्ञानम्, स्मार्त्ततां नातिवर्त्ततेयथोक्तनीत्या ।। १५७७-१५७९ ॥ स्यादेतत्, न हि संज्ञासम्बन्धः साधर्म्यद्वारेण क्वचित् क्रियते, किं तर्हि ? साक्षात् संज्ञिनमुपदर्श्य 'अयं गौ: ' इत्येवं क्रियमाणो दृष्टः, न तु परोक्षविषयः ? इत्याहअनन्तोपायजन्याश्च समाख्यायोगसंविदः । साधर्म्यमनपेक्ष्यापि जायन्ते नरपादिषु ॥। १५८० ॥ समाख्यायोगसंविद इति । संज्ञासम्बन्धज्ञानानि । नरपादिष्विति । राजादिषु ॥१५८० ॥ तदेवानन्तोपायजन्यत्वं प्रदर्शयितुमुदाहरणमाह सितातपत्रापिहितब्रध्नपादो नराधिपः । तेषां मध्य इति प्रोक्त' उपदेशविशेषतः ॥ १५८१ ॥ कालान्तरेण तद्दृष्टौ तन्नामास्येति या मतिः । सा तदाऽन्या प्रमा प्राप्ता साधर्म्याद्यनपेक्षणात् ।। १५८२ ।। यथा हि कश्चित् कञ्चिद् ब्रूते - 'गच्छ भ्रातरमुना कार्येण, पश्य नराधिपतिं बहुभिर्गजतुरगाधिरूढैः पुरुषैः सह गच्छन्तम्' इति । स प्रत्याह- 'कस्तेषां मध्ये नराधिपतिः ?' इति । स कथयति — 'सितातपत्रेणापिहिता ब्रध्नपादाः = आदित्यरश्मयो यस्य स तेषां मध्ये नराधिपतिः ' इति । तस्य तमुपदेशं गृहीत्वा गतस्य दृष्ट्वा तं यथोक्तविशेषणविशिष्टं राजानम् 'अयमसौ नराधिपतिनाम' इति या बुद्धिरुत्पद्यते, साऽपि भवन्मतेन प्रमाणान्तरमापतितम् । कस्मात् ? सादृश्याद्यनपेक्षणात्। अनेन प्रमाणषट्कानन्तर्भावं दर्शयति ॥ १५८१-१५८२॥ ( अविद्धकर्णस्तु - " द्वे एव प्रमाणे, स्वलक्षणसामान्यलक्षणाभ्यां चान्यत् प्रमेयं नास्ति" ) इत्येद्विघटनार्थं प्रमाणयति - " प्रत्यक्षमनुमानव्यतिरिक्तप्रमाणान्तरसद्वितीयम्; प्रमाणत्वात् । अनुमानं वा प्रत्यक्षव्यतिरिक्तप्रमाणान्तरसद्वितीयं प्रमाणत्वात्, प्रत्यक्षवत् । तथा स्वलक्षणं सामान्यलक्षण व्यतिरिक्तप्रमेयार्थान्तरसद्वितीयम्; प्रमेयत्वात्, सामानयलक्षणवत् । सामान्यलक्षणं वा स्वलक्षणव्यतिरिक्तप्रमेयान्तरसद्वितीयम्; प्रमेयत्वात्, स्वलक्षणवत् " इति । एतदेवाह अन्ये' प्रमान्तरास्तित्वं साधयन्त्यनुमाबलात्। प्रत्यक्षमनुमाभिन्नप्रमाणान्तरसङ्गतम् अनुमावत् प्रमाणत्वादनुमाऽप्येवमेव तेषामप्रतिबन्धोऽयं हेतुर्बाधाप्रकाशनात् ॥ १५८४ ॥ चतुष्षं च प्रमाणानां व्याहन्येतैवमेव ते । च। १. शबरस्वामिनेति शेष: । ३. साधयत्य० पा०, गा० । २. अन्य:- पा०, गा० । ४. नैवम० - पा०, गा० । ॥ १५८३ ॥
SR No.002258
Book TitleTattvasangraha Part 01
Original Sutra AuthorN/A
AuthorDwarikadas Shastri
PublisherBauddh Bharati
Publication Year1997
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy