SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ प्रमाणान्तरभावपरीक्षा ३८७ यतः शब्दार्थपरीक्षायां विस्तरेण स्वलक्षणगोचरत्वं शब्दानां विकल्पानां च निराकृतम्, तस्माद् विकल्पसमारोपित एव शब्दार्थः ॥ १५७३ ॥ ___ भवतु वा.तेषां विकल्पशब्दानां स्वलक्षणगोचरस्वम्, तथाप्यनुमान [G.454) एवान्तर्भावानोपमानं प्रमाणान्तरम्। कथं त्रिरूपलिङ्गजत्वमन्तरेणास्यानुमानेऽन्तर्भाव इत्याशङ्कय त्रिरूपलिङ्गजन्यत्वं प्रतिपादयन्नाह तेषां तद्गोचरत्वेऽपि भवत्येवानुमैव वा। त्रिरूपलिङ्गजन्यत्वमस्या एवं प्रतीयते ॥१८७४॥ यो गवा सदृशोऽसौ हि गवयश्रुतिगोचरः। संकेतग्रहणावस्थो बुद्धिस्थो गवयो यथा ॥१५७५॥ गोसदृशत्वं हेतुः, गवयश्रुतिगोचरत्वं साध्यधर्मः, सङ्केतग्रहणकाले विकल्पबुद्धिप्रतिभासी बुद्धिस्थो गवयो दृष्टान्तः । दृश्यमानो गवयो धर्मी ॥ १५७४-१५७५ ॥ ___ स्यादेतत्, गौरिव गवय इत्येतस्मिन् सङ्केतकाले गवयो बुद्धौ न समारूढ एव, ततश्चासिद्धो दृष्टान्तः? इत्याह- . . बुद्धिस्थोऽपि न चेत् तस्यामवस्थायां भवेदसौ। क्रियते समयः कस्मिन्नयं च सदृशो गवा ॥१५७६॥ न केवलं न चक्षुर्गोचर इत्यपिशब्दार्थः । यदि बुद्धौ गोसारूप्यानुगतं न किञ्चित् प्रतिभासेत, तदाऽयं सदृशो गवेति किमाश्रित्य सङ्केतः क्रियेत, क्रियते च समयः, तस्माद् । बुद्धिस्थो गोसारूप्यानुगत आकारः कश्चित् समयकाले प्रतिभासेत-इत्यभ्युपपगन्तव्यम् . ॥१५७६ ॥ .. एवं तावच्छब्दार्थयोः सम्बन्धं प्रमेयमुपमानस्याभ्युपगम्य गृहीतग्रहणादनुमानान्तर्भावाच्वाप्रमाण्यमस्य प्रतिपादितम् । साम्प्रतं सम्बन्धिव्यतिरिक्तः सम्बन्धोऽपरो नास्ति, तौ च सम्बन्धिमौ प्रमाणान्तरेणागहीतौ, तथा हि-समयकाले श्रोत्रज्ञानेन शब्दो गृहीतः, पश्चाच्च गवयश्चक्षुषा पुरोवर्ती गृहीतः, तत् किमपरं प्रमेयमस्ति, येनोपमानस्य प्रामाण्यं स्यादिति। . एतत् प्रतिपादयन्नाह न सम्बन्ध्यतिरिक्तश्च सम्बन्धोऽस्तीति साधितम्। प्रागेव समये शब्दो गृहीतः श्रोत्रचेतसा ॥१५७७॥ चक्षुषा दृश्यते चासावग्रतोऽवस्थितः पशुः। पृथग्विज्ञातयोरेषा युक्ता न घटना प्रमा ॥१५७८॥ गृहीतप्रतिसन्धानात् सुगन्धिमधुरादिवत्। तन्नामयोगसंवित्तिः स्मार्त्ततां नातिवर्त्तते ॥१५७९ ॥ अनेन "गृहीतग्राहित्वादप्रमाण्यमाह-साधितमिति । गुणपदार्थपरीक्षायाम्। स्यादेतत्-यद्यपि पृथक्सम्बन्धिनौ गृहीतौ श्रोत्रादिचेतसा, तयोश्च घटनोपमया क्रियते, १.१ ०मस्य चैवं-पा०, गा० / २. प्रतिभासते-पा०, गा० । .३. मधुरत्ववत्-पा०, गा० । ४. गृहीतग्रहणाद०-पा०, गा०।
SR No.002258
Book TitleTattvasangraha Part 01
Original Sutra AuthorN/A
AuthorDwarikadas Shastri
PublisherBauddh Bharati
Publication Year1997
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy