________________
३८६
तत्त्वसंग्रहे तन्नाम श्रुतमस्येति न ज्ञातुं कश्चन प्रभुः ॥१५६६ ॥ अविद्धकर्णस्त्वाह-"आगमात् सामान्येन प्रतिपद्यते, विशेषप्रतिपत्तिस्तूपमानात्' ( ) इति। अतस्तन्मतमाशङ्कते
उपयुक्तोपमानश्चेत् तुल्यार्थग्रहणे सति।
विशिष्टविषयत्वेन सम्बन्धमवगच्छति ॥१५६७॥ उपयः ...पमानमतिदेशवाक्यं यस्य स तथोक्तः ॥ १५६७ ।।
'द्रतोयेन श्लोकेनाचष्टे
माद्धि स सम्बन्धं वेत्ति सामान्यगोचरम्। विशिष्टविश्यं तं तु विजानात्युपमाश्रयात् ॥१५६८ ॥ विशि' विषयो गवयः ।। १५६८॥ नन्क्त्यिादिना प्रतिविधत्ते
नन्वन्यत्र न संज्ञायाः सम्बन्धस्यावबोधने।
तस्या अर्थान्तरे बोधो युज्येतेऽतिप्रसङ्गतः॥१५६९॥ [G.453] 'न' इत्यस्य 'युज्यते' इत्यनेन सम्बन्धः । न ह्यन्यत्र संज्ञासम्बन्धप्रतिपत्तौ सत्यां तस्याः संहाया अर्थान्तरे प्रतिपत्तिर्युक्ता; अतिप्रसङ्गात् ।। १५६९ ॥ तमेवातिप्रसङ्गं दर्शयन्नाह
न हि चित्राङ्गदे कश्चित् तन्नामग्रहणे सति। कालान्तरेण तं शब्दं वेत्ति चारु. किरीटिनि॥९५७०॥ तस्मात् प्राग् यत्र तेनेदं विकल्पप्रतिविम्बके। ज्ञातं नाम बहिर्बुद्धया सामान्यमिति संज्ञिते ॥१५७१॥ गवयस्योपलम्भेऽपि तत्रैवः प्रतिपद्यते।
दृश्यकल्पाविभागज्ञो बाह्य इत्यभिमन्यते ॥१५७२।। अङ्गदः कटकाख्यमाभरणम्। स चित्रोऽङ्गदो यस्यासौ ततोक्तः । न हि चित्राङ्गदो यः सं देवदत्त इत्युक्तः कश्चित् कालान्तरेण तं चित्राङ्गदशब्दं चारुकिरीटिनि यज्ञदत्ते प्रतिपद्यते। किरीटम्मुकुटम्, चारु च तत् किरीटं यस्यास्ति स तथोक्तः। तस्मान्मा भूदतिप्रसङ्ग इति यत्रैवार्थे विकल्पसमारोपिते बाह्यार्थव्यवसायिन्या बुद्ध्या गृहीतं नाम संज्ञा,गवयोपलम्भेऽपि तत्रैव तन्नाम प्रतिपद्यते, न तु बाह्ये स्वलक्षणे गवयाख्ये। तदेव च विकल्पप्रतिबिम्बकं सामान्यमिति व्यवह्रियते, तत् परपरिकल्पितम्'; तस्य निराकृतत्वात्। कथं तर्हि बाह्यस्वलक्षणाभिमानः? इत्याह-दृश्येत्यादि ॥ १५७०-१५७२ ॥ अथ स्वलक्षणे शब्दादिप्रवृत्तौ को विरोधः? इत्याह
एवं च प्रतिपत्तव्यं यत्स्वलक्षणगोचराः। '
विकल्पा ध्वनयश्चापि विस्तरेण निराकृताः ॥१५७३॥ १. ०तुल्यत्व०-पा०, गा० । २. ह्यर्थान्तरे- पा०, गा०। ३. पा०, गा० पुस्तकयो स्ति। ४. कालान्तरे- पा०, गा०/
५.परिकल्पितम्-पा०, गा० ।