________________
३८५
प्रमाणान्तरभावपरीक्षा अत्रैवोपपत्तिमाह
भूयोऽवयवसामान्ययोगो येनाधिगम्यते।
सर्वावयवसामान्ययोगे तत्त्वं प्रसज्यते ॥१५६१॥ येनेति कारणोपदेशः; येन-यस्मात्, साधर्म्यज्ञाने भूयोऽवयवसामान्ययोगोऽवगम्यते, न तु सर्वावयवसामान्योगः, तस्मादत्राप्यन्योऽन्याभावः। अन्यथा यदि सर्वावयवसामान्ययोगः स्यात्, तदा तत्त्वम् गोत्वम्, गवयस्य प्रसज्येत ॥ १५६१॥
श्रुतातिदेशवाक्यस्य समानार्थोपलम्भने।
संज्ञासम्बन्धविज्ञानमुपमा कैश्चिदिष्यते ॥१५६२॥ केश्चिदिति नैयायिकैः । त एवमुपमानस्य लक्षणमाहुः--"प्रसिद्धसाधात् साध्यसाधनमुपमानम्" (न्या० द० १.१.६) इति। प्रसिद्धं साधर्म्यम्, प्रसिद्धेन वा साधर्म्यं यस्य स प्रसिद्धसाधो गवयः, तस्मात्-तमाश्रित्य, साध्यस्य-संज्ञासंज्ञिसम्बन्धस्य, साधनम् सिद्धिः, उपमानम्। तथा ह्यागमाहितसंस्कारस्मृत्यपेक्षात् साधर्म्यज्ञानात् समाख्यासम्बन्धप्रतिपत्तिरुपमानमित्ययमेवार्थोऽन्यैरन्यथा निर्दिष्टः । गौरिव गवय इत्यतिदेशवाक्यमागमः, तेनाहितो यः संस्काराख्यो गुणः, ततो याऽतिदेशवाक्यार्थस्मृतिरुपजायतेऽरण्ये गवयदर्शनात्, तामपेक्षते यत् साधर्म्यज्ञानं तत्तथोक्तम् । समाख्या-संज्ञा, शब्द इति यावत् । तेन सहार्थस्य यः सम्बन्धः, तस्य प्रतिपत्तिरुपमानमिति तुल्य एवार्थः ॥ १५६२॥ तत्रापीत्यादिना दूषणमाह
तत्रापि संज्ञासम्बन्धप्रतिपत्तिरनाकुला। . : तस्यातिदेशवाक्यस्य 'जातैव श्रवणे यदि॥१५६३॥
तथा परिगृहीतार्थग्रहणान प्रमाणता।
स्मृतेरिवोपमानस्य करणार्थवियोगतः॥१५६४॥ [G.452] तत्रातिदेशवांक्यश्रवणकाले संज्ञासंज्ञिसम्बन्धप्रतिपत्तेः पूर्वमेवोत्पन्नत्वात् पश्चादुत्पद्यमानायां गृहीतग्रहणान्न प्रमाणत्वम्, स्मृतिवत्। स्यादेतद्-गृहीतग्राहित्वम्, भविष्यति प्रामाण्यं चेति कोऽत्र विरोधः? इत्याह- करणार्थवियोगतइति । करणार्थः साधकतमत्वम्, अनिष्पादिते कर्मणि प्रवृत्त्या ॥ १५६३-१५६४॥
स्यादेतत्-पूर्वं संज्ञासम्बन्धप्रतिपत्तिर्न जातैव, ततो गृहीतग्रहणादित्यसिद्धो हेतुः? इत्याह
अथ, सा नैव सञ्जाता तथापि प्रतिपद्यते।
सोऽयं यस्य मया संज्ञा संश्रुतेति कथं तदा ॥१५६५॥ यदि पूर्वं न सञ्जाता संज्ञासम्बन्धप्रतिपत्तिरभविष्यत्, तदाऽयमसौ गवयो यस्य मया पूर्वं संज्ञा श्रुता-इत्येवमाकारा प्रतिपत्ति!दायिष्यत ॥ १५६५ ॥
अत्रैवोपपत्तिमाह
___तथा ह्यश्रुततत्संज्ञो गवयस्योपलम्भने। १. तदेव-पा०, गा०।